Table of Contents

<<3-4-67 —- 3-4-69>>

3-4-68 भव्यगेयप्रवचनीयौपस्थानीयजन्याऽप्लाव्याऽपात्या वा

प्रथमावृत्तिः

TBD.

काशिका

भव्यादयः शब्दाः कर्तरि वा निपात्यन्ते। तयोरेव कृत्यक्तखलर्थः 3-4-70। इति भावकर्मणोः प्राप्तयोः कर्ता च वाच्यः पक्षे उच्यते। भवत्यसौ भव्यः, भव्यम् अनेन इति वा। गेयो माणवकः साम्नाम्, गेयानि माणवकेन सामानि इति वा। प्रवचनीयो गुरुः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इति वा। उपस्थानीयो ऽन्तेवासी गुरोः, उपस्थानीयः शिष्येण वा गुरुः। जायते ऽसौ जन्यः, जन्यमनेन इति वा। आप्लवते ऽसावाप्लाव्यः, आप्लाव्यम् अनेन इति वा। आपतति असावापात्यः, आपात्यम् अनेन इति वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

381 भव्यगेय। कर्तरि वेति। `कर्तरि कृ'दित्यतः कर्तरीत्यनुवृत्तं वेत्यनेन संबध्यते। तथा च कर्तरि वा एते निपात्यन्ते। अन्यत्र नेति फलति। तत्र अन्यत्रेत्यस्याऽनिर्धारणादाह– पक्षे इति। अन्यत्रापि न सर्वत्र, किंतु `तयोरेव कृत्यक्तखलर्थाः' इति सूत्रेण सकर्मकात्कर्मणि, अकर्मकाद्भावे एते कृत्या ज्ञेया इत्यर्थः। `तयोरेव कृत्ये'ति सूत्रे `लः कर्मणि चे'त्यस्मात्सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भाव इत्यनुवर्तते इति भावः। भव्य इति। कर्तरि अचो यत्। भव्यमनेन वेति। भावे यत्।गेयः साम्नामयमित। गाधातोः कर्तरि यत्। `ईद्यती'ति प्रकृतेरीत्त्वम्। गुणः। साम्नां कर्मणामनभिहितत्वात्कृद्योगे षष्ठी। कर्तुरभिहितत्वात्प्रथमा। गेयं सामाऽनेनेति। कर्मणि यत्, सकर्मकत्वात्, नतु भावे, कर्तुरनभिहितत्वात्तृतीया। कृद्योगषष्टी तु कृत्ययोगे कर्तरि वैकल्पिकी, `कृत्यानां कर्तरि वा ' इत्युक्तेः। इत्यादीति। `प्रवचनीयो गुरुर्वेदस्य'। प्रवक्तेत्यर्थः। कर्तरि अनीयर्। `प्रवचनीयो वेदो गुरुणे'ति वा। `उपस्थानीयः शिष्यो गुरोः', `उपस्थानीयो गुरुः शिष्येणे'ति वा। `जन्योऽसौ'। जायते इत्यर्थः। `जन्यमनेने'ति वा। आप्लवतेऽसौ `आप्लाव्यः'। `ओरावश्यके' इति कर्तरि ण्यत्। `आप्लाव्यमनेने'ति वा। आपतत्यसौ `आपात्यः। `ऋहलो'रिति कर्तरि ण्यत्। `आपात्यमनेन वा'। `शकि लिङ् चे'त्यपि व्याख्यातं प्राक् विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम्। नन्विह चकारानुकृष्टकृत्यविधिव्र्यर्थः, शक्तौ अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविदित एव शक्तावपि सिद्धेरित्यत आह- - लिङा बाधेति। `शकि लि'ङित्येतावत्येवोक्ते शक्तौ विशेषविहितेन लिङा कृत्यानां बाधः स्यात्, अशक्तौ कृत्यानां चरितार्थत्वात्। वासरूपविधिस्तु स्त्र्यधिकारादूध्र्वं नेत्युक्तमेवेति भावः। लाघवादिति। इह चकारमात्रेण वासरूपविधेः स्त्र्यधिकारादूध्र्वमनित्यताज्ञापनं संभवति, अतः `प्रैषातिसर्गे'ति सूत्रे कृत्यग्रहणेन `अर्हे कृत्यतृचश्चे'त्यत्र कृत्यतृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः। इति कृत्यप्रक्रिया।

बालमनोरमा

याम् कृत्यप्रक्रिया॥ श्नाविकरणधातवो निरूप्यन्ते। डु क्रीञिति।

तत्त्वबोधिनी

332 भव्य।`तयोरेवे'ति नियमात्कर्तर्यप्राप्ते वचनम्। साम्नामिति। कर्मणि षष्ठी। इत्यादीति। प्रवक्तीति प्रवचनीयो गुरुः स्वाध्यायस्य। प्रवचनीयो गुरुणा स्वाध्यायः। उपस्थानीय शिष्यो गुरोः। उपस्थानीयो गुरुः शिष्येण। जायते जन्यः, जन्यमनेन वा। आप्लवते आप्लाव्यः। ण्यत्। आप्लाव्यमनेन वा। शकि लिङ् च। वोढव्य इति। वह प्रापणे इत्यस्मात्तव्यः। हस्य `हो ढः' इति ढत्वे `झषस्तथो'रिति धत्वे `ष्टुना ष्टु'रिति ष्टुत्वे `ढो ढो लोपः'। `सहिवहो'रित्यवर्णस्यौत्वम्। अत्र ढलोपे कर्तव्ये ष्टुत्वमसिद्धमिति न शङ्क्यम्, आश्रयाऽसिद्धत्वात्। बाधा माभूदिति। `कृत्याना'मिति शेषः। कृत्योक्तिरिति। कृत्याऽनुकर्षकचकारोक्तिरित्यर्थः। \र्\निति तत्त्वबोधिन्याम् कृत्यप्रकरणम्।

Satishji's सूत्र-सूचिः

TBD.