Table of Contents

<<3-4-69 —- 3-4-71>>

3-4-70 तयोरेव कृत्यक्तखलर्थाः

प्रथमावृत्तिः

TBD.

काशिका

तयोरेव भावकर्मणोः कृत्यसंज्ञाकाः क्तखलर्थाश्च प्रत्यया भवन्ति। एवकारः कर्तुरपकर्शणार्थः। कृत्याः कर्मणि कर्तव्यः कटो भवता। भोक्तव्य ओदनो भवता। भावे आशितव्यं भवता। शयितव्यं भवता। क्तः कर्मणि कृतः कटो भवता। भुक्त ओदनो भवता। भावे आसितं भवता। शयितं भवता। खलर्थाः कर्मणि ईषत्करः कटो भवता। सुकरः। दुष्करः। भावे ईषदाढ्यंभवं भवता। स्वाढ्यंभवं भवता। भावो चाक्रमकेभ्यः इत्यनुवृत्तेः सकर्मकेभ्यो भावे न भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

773 एते भावकर्मणोरेव स्युः..

बालमनोरमा

654 तयोरेव कृत्यखलर्थाः। `लः कर्मणि च भावे चे' ति सूत्रोपात्ते भावकर्मणी तच्छब्देन कृत्संज्ञकतया प्राप्तकत्र्रर्थकत्वस्याऽभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाधं गमयति।

तत्त्वबोधिनी

544 तयोरेव। तच्छब्देन भावकर्मणी परामृश्येते, एवकारस्तु क्रतृयोगव्यवच्छेदार्थः। तदाह–भावकर्मणोरेवेति। यद्यप्येतत्तक्रकौण्डिन्यन्यायेनैव लभ्यते तथापि स्पष्टप्रतित्त्यथमेवकार इत्येके। तन्न्यायस्याऽनित्यज्ञापनार्थमित्यन्ये।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एते भावकर्मणोरेव स्युः । The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) are only used to denote action (भावः) or the object (कर्म)। Note: भावे – औत्सर्गिकमेकवचनं क्लीबत्वं च । In भावे प्रयोगः (impersonal passive) the default singular number and neuter gender is used.

उदाहरणम् -

भावे – भवता शयितव्यम् ।

कर्मणि – कर्तव्यः/करणीयः कटो भवता।