Table of Contents

<<3-4-58 —- 3-4-60>>

3-4-59 अव्यये ऽयथाभिप्रेताऽख्याने कृञः क्त्वाणमुलौ

प्रथमावृत्तिः

TBD.

काशिका

अव्यये उपपदे अयथभिप्रेताऽख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः। ब्राह्मण, पुत्रस्ते जातः। किं तर्हि वृषल, नीचैः कृट्याचक्षे, नीचैः कृत्वा, नीचैः कारम्। उच्चैर् नाम प्रियम् आख्येयम्। ब्राहमण, कन्या ते गर्भिणी। किं तर्हि वृषल, उच्चैः कृत्याचक्षे, उच्चैः कृत्वा, उच्चैः कारम्। नीचैर् नामाप्रियम् आख्येयम्। अयथाभिप्रेताऽख्याने इति किम्? उच्चैः कृत्वाचष्टे पुत्रस्ते जातः इति। क्त्वाग्रहणं किम्, यावता सर्वस्मिन्नेव अत्र प्रकरणे वासरूपेण क्त्वा भवति इत्युक्तम्? समासार्थं वचनम्। तथा च क्त्वा च 2-2-22 इत्यस्मिन् सूत्रे तृतीयाप्रभृतीन्यन्यतरस्याम् 2-2-21 इति वर्तते। णमुलधिकारे पुनर् णमुल्ग्रहणं तुल्यकक्षत्वज्ञापनार्थम्, तेन उत्तरत्र द्वयोरप्यनुवृत्तिर् भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1631 अव्यये। अयथेति। न यथाभिप्रेतमयथाभिप्रेतं तथाख्यान इत्यर्थः। त्रियस्योच्चैः, अप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानम्। तद्विपरीताख्याने इति यावत्। नन्वप्रियाख्याने इत्येव कुतो नोक्तमिति चेदत्राहु– प्रियस्य नीचैः कथनमपि प्रियाख्यानमेव, न त्वप्रियाख्यानमिति `नीचैः कृत्य नीचैः कारं प्रियं ब्राऊते' इति प्रयोगो न स्यात्। तथा अप्रियस्य नीचैः कथनमप्यप्रियाख्यानमिति नीचैः कृत्य नीचैः कारमप्रियं ब्राऊत इति प्रयोगोऽपि स्यादित्ययथाभिप्रेताख्याने इत्युक्तमिति।

Satishji's सूत्र-सूचिः

TBD.