Table of Contents

<<3-4-47 —- 3-4-49>>

3-4-48 हिंसाऽर्थानां च समानकर्मकाणाम्

प्रथमावृत्तिः

TBD.

काशिका

तृतीयायाम् इत्येव। हिंसा प्राण्युपघातः। तदर्थानां धातूनाम् अनुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे णमुल् प्रत्ययो भवति। दण्डोपघातं गाः कालयति, दण्डेनोपघातम्। दण्डताडम्, दण्डेन ताडम्। समानकर्मकाणाम् इति किम्? चोरं दण्डेनोपहत्य गोपालको गाः कालयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1624 कालयतीति। कल विक्षेपे चुरादिः। प्रेरयतीत्यर्थः। दण्डताडमिति। तड आघाते। अयमपि चुरादिरेव।

Satishji's सूत्र-सूचिः

TBD.