Table of Contents

<<3-4-18 —- 3-4-20>>

3-4-19 उदीचां माङो व्यतीहारे

प्रथमावृत्तिः

TBD.

काशिका

क्त्वा तु वर्तते। माङो धातोः व्यतीहारे वर्तमानादुदीचाम् आचार्याणां मतेन क्त्वा प्रत्ययो भवति। अपमित्य याचते। अपमित्य हरति। अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते। उदीचांग्रहणात् तु यथाप्राप्तम् अपि भवति। याचित्वा ऽपमयते। गृत्वा अपमयते। मेङः कृतात्वस्य अयं निर्देशः कृतो ज्ञापनार्थः, नानुबङ्घकृतमनेजन्तत्वम् इति। तेन दाधा घ्वदाप् 1-1-20 इति दैपो ऽपि प्रतिषेधो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1586 उदीचाम्। व्यतीहारो व्यतिक्रमः। मेङः कृतात्वस्यायं माङ इति निर्देशो `नानुबन्धकृतमनेजन्तत्वमिति परिभाषां ज्ञापयति, तेन घुसंज्ञायां दैपोऽप्यदाबिति पर्युदासः सिध्यति।

Satishji's सूत्र-सूचिः

TBD.