Table of Contents

<<3-4-19 —- 3-4-21>>

3-4-20 परावरयोगे च

प्रथमावृत्तिः

TBD.

काशिका

परावराभ्यां योगः प्रावरयोगः। परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति। परेण तावत् अप्राप्य नदीं पर्वतः स्थितः। परनदीयोगेन पर्वतो विशिष्यते। अवरयोगे अतिक्रम्य तु पर्वतं नदी स्थिता। अवरपर्वतयोगेन नदी विशिस्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1588 परावर। अप्राप्येति। दक्षिणदेशस्थानां गङ्गामप्राप्य विन्ध्यः। गङ्गाप्राप्तविरहविशिष्टदेशस्थो विन्ध्य इत्यर्थः। अत्र विन्ध्यात्परा गङ्गेति गम्यते। अतिक्रम्येति। दक्षिणदेशस्थानामेवायमपि प्रयोगः। अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते। इह त्रिसूत्र्यां क्त्वाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्यसंसर्गा भिद्यन्त इति नास्ति वैयथ्र्यमिति दिक्।

Satishji's सूत्र-सूचिः

TBD.