Table of Contents

<<3-4-17 —- 3-4-19>>

3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि भावलक्षणे इति सर्वं निवृत्तम्। अलम् खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोः धातोः क्त्वा प्रत्ययो भवति प्राचाम् आचार्याणां मतेन। अलं कृत्वा। खलु कृत्वा। अलं बाले रुदित्वा। अलंखल्वोः इति किम्? मा कार्षीः। प्रतिषेधयोः इति किम्? अलङ्कारः। प्राचांग्रहणं विकल्पार्थम्। अलं रोदनेन। वासरूपविधिश्चेत् पूजार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

881 प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात्. प्राचां ग्रहणं पूजार्थम्. अमैवाव्ययेनेति नियमान्नोपपदसमासः. दो दद्घोः. अलं दत्त्वा. घुमास्थेतीत्त्वम्. पीत्वा खलु. अलंखल्वोः किम्? मा कार्षीत्. प्रतिषेधयोः किम्? अलंकारः..

बालमनोरमा

तत्त्वबोधिनी

1585 अलंखल्वोः। पूजार्थमिति। ननु विकल्पार्थमेवास्तु, अलं रुदित्वा अलं रोदनेनेति रूपद्वयसिध्यर्थमिति चेन्मैवम्। वासरूपन्यायेनैतत्सिद्धेः। न च `क्तल्युट् तुमुन्खलर्थेषु' वाऽसरूपविधिर्ने'ति सिद्धान्ताल्ल्युटि वासरूपन्यायो अस्तीति वाच्यं, `क्तल्यडादयोऽपवादभूताः स्वबाध्यं नित्यं बाधन्ते' इति हि तस्य निष्कृष्टोऽर्थः। इह तु ल्युटोऽपवादः क्त्वेति वैषम्यात्। ननु `प्रैषादिषु कृत्याश्चे'ति वचनेन स्त्र्यधिकारादूध्र्वं वासरूपवधिर्नावश्यमस्तीति ज्ञापितमिति चेत्कं ततः ?। `ज्ञापकसिद्धं न सर्वत्रे'तीष्टानुरोधेन तदभ्युपगमे बाधकाऽभावात्। अलं दत्त्वेति। अपात्रे न देयमिति फलितोऽर्थः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः प्रतिषेधार्थयोरलंखल्‍वोरुपपदयोः क्‍त्‍वा स्‍यात् । प्राचां ग्रहणं पूजार्थम् । In the opinion of the Eastern grammarians, the affix ‘क्त्वा’ is used following a verbal root when in combination with अलम्/खलु expressing the sense of prohibition. Note: The mention of the Eastern grammarians is for the sake of showing respect. (Optionality is already available by 3-1-94 वासरूपोऽस्त्रियाम्)।

उदाहरणम् – अलं रुदित्वा । रुदित्वा is derived from the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२). Note: अलं रोदनेन/रुदितेन is also allowed as per 3-1-94.

अलम् + रुद् + क्त्वा 3-4-18
= अलम् + रुद् + त्वा 1-3-8, 1-3-9
= अलम् + रुद् + इट् त्वा 7-2-35, 1-1-46
= अलम् + रुदित्वा 1-3-3, 1-3-9

Example continued under 1-2-18