Table of Contents

<<3-3-18 —- 3-3-20>>

3-3-19 अकर्तरि च कारके संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

कर्तृवर्जिते कारके संज्ञायां विषये धातोः घञ् भवति। प्रास्यन्ति तं प्रासः। प्रसीव्यन्ति तं प्रसेवः। आहरन्ति तस्माद् रसम् इति आहारः। मधुराहारः। तक्षशिलाहारः। अकर्तरि इति किम्? मिषत्यसौ मेषः। सज्ञायाम् इति किम्? कर्तव्यः कटः। संज्ञाव्यभिचारार्थश्चकारः। को भवता दायो दत्तः। को भवता लाभो लब्धः। कारकग्रहणं पर्युदासे न कर्तव्यम्। तत् क्रियते प्रसज्यप्रतिषेधे ऽपि समासो ऽस्ति इति ज्ञापनार्थम्, आदेच उपदेशे ऽशिति 6-1-45 इति। इत उत्तरं भावे, अकर्तरि च कारके इति द्वयम् अनुवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

855 कर्तृभिन्ने कारके घञ् स्यात्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.