Table of Contents

<<3-3-19 —- 3-3-21>>

3-3-20 परिमाणाऽख्यायां सर्वेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

परिमाणाऽख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यः घञ् प्रत्ययो भवति। एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कृ\उ0304 विक्षेपे द्वौ कारौ। क्रयः काराः। सर्वग्रहणम् अपो ऽपि बाधनार्थम्। पुरस्तादपवादन्यायेन ह्यचम् एव बाधेत, न अपम्। परिमाणाऽख्यायाम् इति किम्? निश्चयः। आख्याग्रहणं रूढिनिरासार्थम्। तेन सङ्ख्या ऽपि गृह्यते, न प्रस्थाद्येव। घञनुक्रमणम् अजपोर् विषये, स्त्रीप्रत्ययास् तु न बाध्यन्ते। एका तिलोच्छित्तिः। द्वे प्रसृती। दारजारौ कर्तरि णिलुक् च। दारयन्ति इति दाराः। जरयन्ति इति जाराः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1519 परिमाणाख्यायाम्। सर्वेभ्यः–घातुभ्यः। परिमाणं–परिच्छित्तिः। आख्यानमाख्या उक्तिः। परिच्छित्तेरुक्तौ सत्यामित्यर्थः। कस्य पुनः परिच्छित्तिरिति चेत्प्रत्ययार्थस्येत्युच्यते। आख्याग्रहणं रूढिनिरासार्थं, तेन परिमाणग्रहणेन सङ्ख्याऽत्र गृह्रते। सर्वेभ्यः किम् ?। अन्यथा पुरस्तादपवादन्यायेनाऽचमेव घञ् बाधेत, न त्वपम्। तण्डुलनिचाय इति। निचीयते राशीक्रियते इति निचायः। अत्र राश्येकत्वेन समुदायिनां परिच्चित्तिरर्थाद्गम्यते। `एर'जित्यचि प्राप्ते घञ्। निष्पूयते शोध्यते तुषाद्यपनयनेन यस्तण्डुलादिः स निष्पावः। `ऋदारो'बित्यपि प्राप्ते घञ्। शूर्पेणेति करणे तृतीयान्तस्य `कर्तृकरणे कृता बहुल'मिति समासः। अत्र शूर्पसङ्खया तण्डुलादेरपि परिच्छित्तिः। शूर्पद्वित्वं तु आर्थिकं , न तु शाब्दं , निष्पावगतद्वित्वं तु शाब्दम्। यद्यप्यत्र `निरभ्योः पूल्वो'रिति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः। अप्रत्ययस्य मुख्योदाहरणमाह– द्वौ काराविति। कृ? विक्षेपे। कर्मणि घञ्। शूर्पादिना विक्षिप्तो धान्यादिराशिः कारः। इह प्रकृत्याश्रय एवापवादो नत्वर्थाश्रयः, सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात्। तेना।?यं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति। एका तिलोच्छ्रितिः। उत्पूर्वकाच्छ्रयतेः कर्मणि भवे वा क्तिन्। ऊर्ध्वीकृतो राशीकृत इत्यर्थः। तदेतत्सूचयितुमुक्तम् `अजपोरपवाद इति। तयोरपि प्रकृत्याश्रयत्वात्, अपवाद्यापवादयोः समानविषयत्वौचित्यात्। स्त्रियां क्तिन् त्वर्थाश्रय इति दिक्। दारजाराविति। अकर्तरि कारके इत्यधिकारात् `ऋदोर'बित्यस्य घञपवादत्वाच्च कर्तरि घञर्थमिदं वचनम्। णिलुक्चेति। चाद्घञ्। लोपे हि सति घञाश्रया वृद्धिर्न स्याण्णिलोपस्य स्थानिवद्भावेन व्यवधानात्। न च णिज्निमित्तैव वृद्धिरस्त्विति वाच्यं, जारशब्दे `मितां ह्यस्वःर' इति ह्यस्वापत्तेः। `जनीजृ?'षिति जृ?धातोर्णौ मित्त्वात्। लुकि तु सति तस्य परनिमित्तत्वाऽभावेन , `क्विलुगुपधे'ति क्वौ लुप्तस्य निषेधेन वा स्थानिवत्त्वाऽभावाज्जार इति रूपं सिध्यतीति भावः। एतेन दीर्यते यैस्ते दाराः, जीर्यतेऽनेनेति जार इत्यण्यन्ताभ्यामेव करणे घञस्तु किमनेन वचनेनेति केषांचिदुक्तिः परास्ता। `ॠदोर'बित्यपवादविषये उत्सर्गस्य घञो दुर्लभत्वात्। स्त्र्यधिकारादूध्र्वं वाऽसरूपविधेरनङ्गीकारादपवादोऽप्यच् `करणाधिकरणयो'रिति ल्युटा बाधादिह दुर्लभ इत्यन्यदेतत्।

Satishji's सूत्र-सूचिः

TBD.