Table of Contents

<<3-3-17 —- 3-3-19>>

3-3-18 भावे

प्रथमावृत्तिः

TBD.

काशिका

भावे वाच्ये धातोः घञ् प्रत्ययो भवति। पाकः। त्यागः। रागः। क्रियासामान्यवाची भवतिः। तेन अर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति। धात्वर्थश्च धातुना एव उच्यते। यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्ययाः विधीयन्ते। पुंलिङ्गएकवचनं च अत्र न तन्त्रं, लिङ्गान्तरे वचनान्तरे ऽपि च अत्र प्रत्यया भवन्त्येव। पक्तिः, पचनम्, पाकौ, पाकाः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

854 सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्. पाकः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.