Table of Contents

<<3-3-138 —- 3-3-140>>

3-3-139 लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इत्यनुवर्तते। हेतुहेतुमतोर् लिङ् 3-3-156 इत्येवम् आदिकं लिङो निमित्तम्। तत्र लिङ्निमित्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः। दक्षिणेन चेदायास्यन् न शकटं पर्यभविस्यत्। यदि कमलकमाह्वास्यन् न शकटं पर्याभविष्यत्। अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्। भविष्यत् कालविषयम् एतद् वचनम्। भविस्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानम्। लिङ्गिलिङ्गे बुद्धवा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते, यदि कमलकमाह्वास्यन्न शक्टं पर्याभविष्यतिति। हेतुहेतुमतोराह्वानापर्याभवनयोः भविष्यत् कालविषययोः अतिपत्तिः इतो वाक्यादवगम्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

444 हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्. अभविष्यत्. अभविष्यताम्. अभविष्यन्. अभविष्यः. अभविष्यतम्. अभविष्यत. अभविष्यम्. अभविष्याव. अभविष्याम. सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्.. अत सातत्यगमने.. 2.. अतति..

बालमनोरमा

76 लिङ्निमित्ते। हेतुहेतुमद्भावादीति। हेतुहेतुमतोर्लिङ्' , `इच्छार्थेषु लिङ्लोटा'वित्यादि लिङ्निमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति। भविष्यत्यर्थ इति। `भविष्यति मर्यादावचने' इत्यतस्तदनुवृत्तेरिति' भावः। क्रियातिपत्तिपदं व्याचष्टे—क्रियाया अनिष्पत्ताविति। `सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य'दित्युदाहरणं बोध्यम्। अभविष्यदिति। लृङ्। तिप्। इतश्चेतीकारललोपः। `स्यतासी लृलुटो'रिति शबपवादः स्यप्रत्ययः। अट्। वलादिलक्षम इट्। गुणावादैशौ। षत्वम्। अभविष्यन्निति। झिः। स्यः। अट्। इट्। गुणावादेशौ। `झोऽन्त इति झेरन्तादेशः। इतश्चेतीकारलोपः। षत्वम्। रुत्वविसर्गौ। अभविष्यतमिति। थसस्तमादेशः। स्यः अट्। इट्। गुणः। अवादेशः। इतश्चेतीकारलोपः। षत्वम्। रुत्वविसर्गौ। अभविष्यमिति। मिपोऽम्। स्यः। अट्। इट्। गुणावौ। पूर्वरूपम्। षत्वम्। अभविष्यावेति। वस्। स्यः। अट्। इट्। नित्यं ङित इति सकारलोपः। अतो दीर्घः। षत्वम्। एवं मसि अभविष्यामेति रूपम्। इति लृङ्प्रक्रिया। अथ प्रसङ्गादाह–

तत्त्वबोधिनी

58 हेतुहेतुद्भावादीति। अत्र केचित्– `आदिशब्देनाशंसावचनं गृह्रत' इति व्याख्याय आशंसावचने लिङो यन्निमित्तं तत्रापि क्रियातिपत्तौ भविष्यति लृङ्, गुरुश्चेदायास्यत्, आशंसे,- अहमध्येष्ये' इत्याद्युदाहरन्ति। अन्ये तु `भविष्यति मर्यादे'त्यादिना भविष्यतीत्युपक्रम्य यो यो लिङ्ग विहितस्तन्निमित्त एव क्रियातिपत्तौ लृह् भवति, नान्यत्रेत्याहुः॥ लिङ्?निमित्तमिति। `हेतुहेतुमतोर्लिङ्' , `इच्छार्थेष #उ लिङ्लोटौ' इत्यादिलकारार्थप्रक्रियायां स्फुटीभविष्यति। अनिष्पत्ताविति। `सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य'दिति तत्रैवोदाहरिष्यति।

Satishji's सूत्र-सूचिः

वृत्ति: हेतुहेतुमद्भावादि लिङिनमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । The affix लृँङ् is employed after a verbal root to denote a future action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.
Note: The affix लृँङ् has to be used in both the antecedent and the consequent clauses.

उदाहरणम् – सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्। If there will be good rain (which clearly there will not be) then there will be plenty of food.

अभविष्यत् is derived from √भू (भू सत्तायाम् १. १). विवक्षा is लृँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लृँङ् 3-3-139
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= भू + ति 1-3-3, 1-3-9
= भू + त् 3-4-100
= भू + स्य + त् 3-1-33
= भू + इट् स्य + त् 7-2-35, 1-1-46
= भू + इस्य + त् 1-3-3, 1-3-9
= भो + इस्य + त् 7-3-84
= भविस्यत् 6-1-78
= अट् भविस्यत् 6-4-71, 1-1-46
= अभविस्यत् 1-3-3, 1-3-9
= अभविष्यत् 8-3-59

See conjugation table.