Table of Contents

<<3-3-155 —- 3-3-157>>

3-3-156 हेतुहेतुमतोर् लिङ्

प्रथमावृत्तिः

TBD.

काशिका

तेहुः कारणम्। हेतुमत् फलम्। हेतुभूते हेतुमति चार्थे वर्तमानाद् धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। दक्षिणेन चेद् यायान्न शकटं पर्याभवेत्। यदि कमलकमाह्वयेन्न शकटं पर्याभवेत्। दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति। तत्र विभाषाग्रहणं तावदनन्तरम् एव अनुवर्तते। लिङिति वर्तमाने पुनर् लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थम्। तेन इह न भवति, हन्ति इति पलायते, वर्षति इति धावति। क्रियातिपत्तौ लृङ् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

768

बालमनोरमा

636 हेतुहेतुमतोर्लिङ्। पूर्वसूत्राद्विभाषानुवृतिं?त मत्वा आह– वा स्यादिति। पक्षे लृट्। हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत्। भविष्यत्येवेति। लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः। हन्तीति। इतिर्हेतौ। वर्तमानकालिकहननाद्धेतोरित्यर्थः। अत्र लिङ्?निमित्तसत्त्वाद्भविष्यति तु क्रियातिपत्तौ भूते च लृङ्।

तत्त्वबोधिनी

527 हेतुहेतु। विभाषेत्स्याऽनुवर्तनादाह– वा स्यादिति। नमेच्चेदिति। कृष्णनतिः सुखप्राप्तौ हेतुः। पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः। हन्तीत्यादि। ननु `लक्षणहेत्वोः क्रियायाः' इति हन्तेः शतृप्रत्ययः स्यात्, हननस्य पलायने हेतुत्वात्। मैवम्। `देवत्रातो गलो ग्राह इति योगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः' इति `शाच्छोरन्यतरस्यामिति सूत्रे भाष्ये व्यवस्थापितत्वात्। व्याख्यातं च कैयटेन तत्रैव सूत्रे– `देवत्रात्' इति संज्ञा। तत्र `नुदविदोन्दत्राघ्राह्यीभ्योऽन्यतरस्या'मिति न णत्वं भवति–देवत्राण इति। किं तु देवत्रात इत्येव। `ग्रो यङि', `अचि विभाषा' इति प्राण्यह्गे नित्यं लत्वम्। गलः। विषवाचके `गर' इत्यत्र न भवति। `विभाषा ग्रहः' इति णप्रत्ययो जलचरे भवति– ग्राहः। ज्योतिषि न, –ग्रहः। `लक्षणहेत्वो'रिति सूत्रे `नन्वोर्विभाषे'त्यतो विबाषेत्यनुवर्त्त्य व्यवस्थितविभाषाश्रयणादितिशब्दयोगे सद्विधिः = शतृशानचौ न भवतः। हन्तीति पलायते। वातायने– `गवाक्षः'। अन्यत्र त्ववङ्न भवति– गोऽक्षः। संशितव्रत इति बहुव्रीहिः। अत्र `शाच्छोरन्यतरस्या'मिति संशात इतीत्वविकल्पो न भवति। अन्यत्र तु शातः। शितः। ते = पूर्वोक्तनत्वादिविधयो, मिथः =परस्परम् एकविषये, न विकल्प्यन्ते– तत्तद्विधायकसूत्रे व्यवस्थितविभाषाश्रयणादिति भावः। क्रियातिपत्तौ तु भूते भविष्यति च नित्यं लृङ्। यद्यवर्षिष्यत् सस्यमुपत्स्यम्।

Satishji's सूत्र-सूचिः

वृत्ति: वा स्यात् । (भविष्यत्येवेष्यते) । The affix लिँङ् is optionally employed after a verbal root when a cause and its effect are to be expressed. (This सूत्रम् only applies in the future tense.) Note: In the case when the optional affix लिँङ् is not used, the affix लृँट् is used as per the सूत्रम् 3-3-13 लृट् शेषे च।

उदाहरणम् – कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ।