TBD.
भविष्यति मर्यादावचने कालविभागे च अनहोरात्राणाम् इति सर्वम् अनुवर्तते। कालमर्यादाविभागे सति भविस्यति काले परस्मिन् प्रविभागे विभाषा अनद्यतनवत् प्रत्ययविधिर् न भवति, न चेदहोरात्रसम्बन्धी प्रविभागः। अवरस्मिन् वर्जं पूर्वम् अनुवर्तते। अवरस्मिन् पूर्वेण प्रतिषेध उक्तः, सम्प्रति परस्मिन्नप्राप्त एव विकल्प उच्यते। यो ऽयं संवत्सर आगामी, तस्य यत् परमाग्रहायण्याः तत्र युक्ता अध्येष्यामहे, अध्येतास्महे, तत्र सक्तून् पास्यामः, तत्र सक्तून् पातास्मः। अनहोरात्राणाम् इत्येव। यो ऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। भविष्यति इत्येव। यो ऽयं संवत्सरो ऽतीतः, तस्य यत् परमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि। मर्यादावचने इत्येव। यो ऽयं संवत्सरो निरवधिकः काल अगामी, तस्य यत् प्रमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। कालविभागे इत्येव। यो ऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यत् परं कौशाम्ब्याः, तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्महे। इति सर्वत्र अनद्यतनवत् प्रत्यया उदाहार्याः।
TBD.
–
619 परसमिन्विभाषा। अनुवर्तते इति। तथा च भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यनवद्वेति फलितम्। `लिङ्निमित्ते लृङ् क्रियातिपत्तौ' इति व्याख्यातं भूधातुनिरूपणे।
511 परस्मिन्। `भविष्यत्यनद्यतनवतन्ने'ति वकल्पेन निषिध्यते। वज्र्यमिति। णिजन्तात् `अचो य'दिति कर्मणि यत्। वर्जमिति। पाठे तु `द्वितीयायां चे'ति णमुल्।अनहोरात्रामित्येव। योऽयं वत्सर आगामी तस्य यत्परं पञ्चदशरात्रात्तत्र पयः पातास्म [इत्यादि]। लिङ्निमित्त इति। अतिपत्तिः–अनिष्पत्तिः।
TBD.