Table of Contents

<<3-3-122 —- 3-3-124>>

3-3-123 उदङ्को ऽनुदके

प्रथमावृत्तिः

TBD.

काशिका

उदङ्क इति निपात्यते अनुदकविषयश्चेद् धात्वर्थो भवति। उत्पूर्वादञ्चतेः घञ् निपात्यते। ननु च हलश्च 3-3-121। इति सिद्ध एव घञ्? उदके प्रतिषेधार्थम् इदं वचनम्। तैलोदङ्कः। अनुदके इति किम्? उदकोदञ्चनः। घः कस्मान् न प्रत्युदाह्रियते? विशेषाभावात्। घञ्यपि थाथादिस्वरेन अन्तोदात्त एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1576 उदङ्को। `हलश्चे'त्येव सिद्दे उदकप्रतिषेदार्थमिदम्। उदकोदञ्चन इति। `पुंसि संज्ञाया'मिति घे प्राप्ते घञ्विहितः। उदके तु घञि प्रतिषिद्धे घ एव स्यान्न तु ल्युडिति चेन्मैवम्। प्रतिषेधसामथ्र्याद्धस्याऽप्यप्रवृत्तेः। नहि इह घे घञि वा रूपे विशेषोऽस्ति। नच स्वरे विशेषः, घे सति कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तता, घञ्यपि थाथादिस्वरेण तथैवेति।

Satishji's सूत्र-सूचिः

TBD.