Table of Contents

<<3-3-121 —- 3-3-123>>

3-3-122 अध्यायन्यायौद्यावसंहाराऽधाराऽवायाश् च

प्रथमावृत्तिः

TBD.

काशिका

अध्यायाऽदयः शब्दाः घञन्ता निपात्यन्ते। पुंसि संज्ञायां घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयते अस्मिनिति अध्यायः। नीयत अनेन इति न्यायः। उद्युवन्ति अस्मिनिति उद्यावः। संह्रियन्ते ऽनेन इति संहारः। आघ्रियन्ते अस्मिनिति आधारः। आवयन्ति अस्मिन्निति आवायः। चकारो ऽनुक्तसमुच्चयार्थः। अवहारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1575 अवहारेत्यादि। वृत्तिकारस्त्वाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणाऽवहारशब्दं संजग्राह, तदसंबद्धमिति स्पष्टमेव।

Satishji's सूत्र-सूचिः

Video

वृत्तिः घञन्ता निपात्यन्ते । ‘अध्याय’, ‘न्याय’, ‘उद्याव’ and ‘संहार’ are given as ready-made proper nouns ending in the affix ‘घञ्’ to denote in the masculine gender the instrument or the locus of the action.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118.
Note: In the काशिका this सूत्रम् is stated as 3-3-122 अध्यायन्यायोद्यावसंहाराधारावायाश्च।

उदाहरणम् – अधीयन्तेऽस्मिन् = अध्याय: derived from the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’।

अधि इ + घञ् The affix ‘घञ्’ is implied in the ready-made form ‘अध्याय’ given in 3-3-122
= अधि इ + अ 1-3-3, 1-3-8, 1-3-9
= अधि ऐ + अ 7-2-115
= अधि आय् + अ 6-1-78
= अध्याय 6-1-77. ‘अध्याय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – नियन्त्यनेन = न्याय: derived from the verbal root √इ (इण् गतौ २. ४०) with the उपसर्ग: ‘नि’। Derivation is similar to that of ‘अध्याय’ shown above.

वार्तिकम् (under 3-3-122 अध्यायन्यायोद्यावसंहाराश्च) अवहाराधारावायानामुपसङ्ख्यानम् ।

Video

The list of words given in the सूत्रम् 3-3-122 should be extended to also include ‘अवहार’, ‘आधार’ and ‘आवाय’।

उदाहरणम् – आध्रियन्तेऽस्मिन्नित्याधारः derived from the verbal root √धृ (धृञ् धारणे १. १०४७) with the उपसर्ग: ‘आङ्’।

आङ् धृ + घञ् The affix ‘घञ्’ is implied in the ready-made form ‘आधार’ given in the वार्तिकम् (under 3-3-122) अवहाराधारावायानामुपसङ्ख्यानम्
= आ धृ + अ 1-3-3, 1-3-8, 1-3-9
= आ धर् + अ 7-3-84, 1-1-51
= आधार 7-2-116. ‘आधार’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.