TBD.
छादेरङ्गस्य अद्व्युपसर्गस्य घप्रत्यये परतः उपधायाः ह्रस्वो भवति। उरश्छदः प्रच्छदः। दन्तच्छदः। णिलोपस्य असिद्धत्वं स्थानिवद्भावो वावचनसामर्थ्यादत्र न भवति इति ह्रस्वभाविनी उपधा भवति। अद्व्युपसर्गस्य इति किम्? समुपच्छादः। अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम्। समुपातिच्छादः। उत्तरा हि सङ्ख्या पूर्वसङ्ख्याकृतं व्यपदेशम् निवर्तयति, नहि त्रिपुत्रो द्विपुत्रः इति व्यपदिश्यते।
TBD.
876 द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे. दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः. आकुर्वन्त्यस्मिन्नित्याकरः..
–
1573 आकुर्वन्तीति। एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकर उत्पत्तिस्थानम्।
वृत्तिः द्विप्रभृत्युपसर्गहीनस्य छाद उपधाया ह्रस्वो घपरे णौ । When followed by the affix ‘णि’ which itself is followed by the affix ‘घ’ the penultimate letter of the base ‘छाद्’ is shortened provided ‘छाद्’ is not in composition with two or more prefixes.
Example continued from 3-3-118
दन्त + आम् + छाद् + अ Note: Even though the affix ‘णि’ has been elided (by 6-4-51), 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् allows us to still apply 6-4-96 (which depends on the affix ‘णि’) in the next step.
= दन्त + आम् + छद् + अ 6-4-96. ‘दन्त + आम् + छद् + अ’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= दन्त छद 2-4-71
= दन्त तुँक् छद 6-1-73, 1-1-46
= दन्त त् छद 1-3-2, 1-3-3, 1-3-9
= दन्तच्छद 8-4-40
‘अद्व्युपसर्गस्य’ इति किम्? समुपच्छादः। समुपातिच्छादः।