Table of Contents

<<3-3-8 —- 3-3-10>>

3-3-9 लिङ् च ऊर्ध्वमौहूर्तिके

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति, विभाषा, लोडर्थलक्षणे इति सर्वम् अनुवर्तते। ऊर्ध्वमौहूर्तिके भविष्यति काले लोडर्थलक्षणार्थे वर्तमानात् धातोर् विभाषा लिङ्प्रत्ययो भवति, चकाराल् लट् च। ऊर्ध्वं मुहूर्ताद् भवः ऊर्ध्वमौहूर्तिकः। निपातनात समासः, उत्तरपदवृद्धिश्च। भविस्यतश्च एतद् विशेषणम्। ऊर्ध्वं मुहूर्तातुपरि मुहूर्तस्य उपाध्यायश्चेदागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दो ऽधीष्व, अथ त्वं व्याकरणम् अधीष्व।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

612 लिङ् चोध्र्वमौहूर्तिके। `ऊध्र्व'मिति विभक्तिप्रतिरूपकमव्ययम्। ऊध्र्वं मुहूर्ताद्भव इति विग्रहः। केचित्तु `ऊध्र्व'मिति द्वितीयान्तम्, `अकर्मकधातुभिर्योगे' इति कर्मत्वादित्याहुः। ऊध्र्वमौहूर्तिक इति। ऊध्र्वमुहूर्तशब्दाद्भवार्थे कालाट्ठिति भावः। ननु तद्धितार्थेत्यत्र दिक्सङ्ख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथंसमास इत्यत आह– निपातनादिति। पूर्वपदे आदिवृद्धिमाशङ्क्य आह– उत्तरपदवृद्धिश्चेति। निपातनादित्यनुषज्यते। ऊध्र्वमौहूर्तिके इति। मुहूर्तादूध्र्वकालीने इत्यर्थः। इदं च लोडर्थलक्षण इत्यत्रान्वेति। लिङ्लटाविति। चाल्लट् समुच्चीयत इति बावः। वा स्त इति। पक्षे लुट्लृटौ यथाप्राप्तम्। छन्द इति। वेदमित्यर्थः। इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः। अथाऽस्मिन्नेव तृतीयपादे कतिपयान्विधीनाह- -

तत्त्वबोधिनी

503 लिङ् चोध्र्व। `कालाट्ठञ्'। `तद्धितार्थोत्तरपदे'त्यत्र `दिक्सङ्ख्ये' इत्यनुवर्तनादिह समासो दुर्लभ इत्याशङ्कायामाह– निपातनादिति।

Satishji's सूत्र-सूचिः

TBD.