Table of Contents

<<3-2-93 —- 3-2-95>>

3-2-94 दृशेः क्वनिप्

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। दृशेः धातोः कर्मणि उपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। अन्येभ्यो ऽपि दृश्यन्ते 3-2-75 इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तरनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

811 कर्मणि भूते. पारं दृष्टवान् पारदृश्वा..

बालमनोरमा

814 दृशेः क्वनिप्। `आतो मनिन्क्वनिब्वनिपश्च', `अन्येभ्योऽपि दृश्यन्ते' इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च। निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः। पारं दृष्टवान्।

तत्त्वबोधिनी

671 दृशेः क्वनिप्। `अन्येब्योऽपि दृश्यन्ते' इति सिद्धे नियमार्थमिदं– `क्वनिबेव यथा `स्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां, न वा अणादय' इति। सोपपदप्रत्ययस्यैव नियमेव निवर्तनान्निष्ठा तु भवत्येव –पारं दृष्टवानिति। एवं स्थिते `वि\उfffदादृ\उfffदानयना वयमेवे'त्यादौ वि\उfffदां पश्यन्ति वि\उfffदादृ\उfffदाआनि, तानि नयनानि येषां ते वि\उfffदादृ\उfffदानयना इत्येवं क्वनिबन्तस्य लटा विग्रहेऽपि न क्षतिः। प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिव्र्याख्यातत्वात्, कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तत्वादिति दिक्।

Satishji's सूत्र-सूचिः

TBD.