Table of Contents

<<3-2-94 —- 3-2-96>>

3-2-95 राजनि युधिकृञः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। राजन्शब्दे कर्मणि उपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति। ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति। राजयुध्वा। राजानं योधितवानित्यर्थः। राजकृत्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

812 क्वनिप्स्यात्. युधिरन्तर्भावितण्यर्थः. राजानं योधितवान् राजयुध्वा. राजकृत्वा..

बालमनोरमा

815 राजनि युधि कृञः। युधि, कृञ् अनयोः समाहारद्वन्द्वात्पञ्चमी। क्वनिप् स्यादिति। राजनि कर्मण्युपपदे भूतार्ताद्युधेः कृञश्च क्वनिबित्यर्थः। ननु युधेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह- - युधिरन्तर्भावितेति। राजकृत्वेति।राजानं कृतवानित्यर्थः।

तत्त्वबोधिनी

672 राजनि युधि कृञः।

Satishji's सूत्र-सूचिः

TBD.