Table of Contents

<<3-2-74 —- 3-2-76>>

3-2-75 अन्येभ्यो ऽपि दृश्यन्ते

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति निवृत्तम्। अन्येभ्यो ऽपि धातुभ्यो ऽनाकारान्तेभ्यो मनिन् क्यनिप् वनिपित्येते प्रत्यया दृश्यन्ते, विच् च। सुशर्मा। क्वनिप् प्रातरित्वा। प्रातरित्वानौ। वनिप् विजावाग्ने। अग्रेयावा। विच् खल्वपि रेडसि। अपिशब्दः सर्वौपाधिव्यभिचारार्थः। निरुपपदादपि भवति। धीवा। पीवा। दृशिग्रहणं प्रयोगानुसरणार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

802 मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः..

बालमनोरमा

790 अन्येभ्योऽपि दृस्यन्ते। `विजुपे छन्दसि' `आतोमिन्?क्वनिब्वनिपश्चे'त्यधिकारे इदं इत्, इकार उच्चारणार्थः। विचि चकार इत् इकार उच्चारणार्थः।

तत्त्वबोधिनी

655 अन्येभ्योऽपि दृश्यन्ते। इह `विजुपे छन्दसि' इत्यतो विच्प्रत्ययः। `आतो मनि'न्निति सूत्रान्मनिनादयश्चानुवर्तन्ते। तदाह– मनिन्क्वनिबित्यादि।

Satishji's सूत्र-सूचिः

TBD.