Table of Contents

<<3-2-92 —- 3-2-94>>

3-2-93 कर्मणि इनिर् विक्रियः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि उपपदे विपूर्वत् क्रीणातेर् धातोः इनिः प्रत्ययो भवति। कर्मणि इति वर्तमाणे पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति, धान्यविक्रायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

813 कर्मणीनि विक्रियः। `इनि' इत्यविभक्तिकम्। विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम्। कुत्सितेति। कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः। सोमविक्रयीति। सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.