Table of Contents

<<3-2-83 —- 3-2-85>>

3-2-84 भूते

प्रथमावृत्तिः

TBD.

काशिका

भूते इत्यधिकारो वर्तमने लट् 3-2-123 इति यवत्। यदित ऊर्ध्वम् अनुक्रमिष्यामः भूते इत्येवं तद् वेदितव्यम्। धात्वधिकाराच् च धात्वर्थे भूते इति विज्ञायते। वक्ष्यति करणे यजः 3-2-85, अग्निष्टोमेन इष्टवानग्निष्टोमयाजी। भूते इति किम्? अग्निष्टोमेन यजते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

805 भूते। अधिकारोऽयमिति। धातोरित्यधिकृतम्। ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति। वर्तमाने इति। `वर्तमाने ल'डित्यतः प्रागित्यर्थः। अत्र व्याख्यानमेव शरणम्।

तत्त्वबोधिनी

665 भूते। धातोरित्यधिकाराद्धात्वर्थस्य विशेषणमिद्। भूतेऽर्थे विद्यमानाद्धातोरित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.