Table of Contents

<<3-2-84 —- 3-2-86>>

3-2-85 करणे यजः

प्रथमावृत्तिः

TBD.

काशिका

णिनिः अनुवर्तते, न खश्। यजतेर् धातोः करणे उपपदे णिनिप्रत्ययो भवति भूते। अग्निष्टोमयाजी। अग्निष्तोमः फलभावनायां करणं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

810 करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि. सोमेनेष्टवान् सोमयाजी. अग्निष्टोमयाजी..

बालमनोरमा

806 करणे यजः। सोमेनेति। सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः। सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः। एतच्च द्वितीयस्य द्वितीये `द्रव्यसंयोगाच्चोदना पशुसोमयो'रित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः। अग्निष्टोमयाजीति। अग्निष्टोमाख्ययागेन अपूर्वं भावितवानित्यर्थः।

तत्त्वबोधिनी

666 करणे। स्वरितत्वाण्णिनिरेवानुवर्तते, न तु खशित्याह– णिनिः स्यादिति। सोमेन लताविशेषेण यागं कृतवानित्यर्थः। अग्निष्टोमेति। अग्निष्टोमस्तोत्रेण समाप्यमानो यो यागः स लक्षणयाऽग्निष्टोमस्तेनाऽपूर्वं भावितवानित्यर्थः। उक्तं च काशिकायाम्- - अग्निष्टोमः फलभावनायां करण'मिति।

Satishji's सूत्र-सूचिः

TBD.