TBD.
आत्मनो मननम् आत्ममानः। आत्ममाने वर्तमानान् मन्यतेः सुप्युपपदे खश्प्रत्ययो भवति। चकाराण् णिनिः च। यदा प्रत्ययार्थः कर्ता आत्मानम् एव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदा ऽयं विधिः। दर्शनीयम् आत्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी। पण्डितं मन्यः, पण्डितमानी। आत्ममाने इति किम्? दर्शनीयमनी देवदत्तस्य यज्ञदत्तः।
TBD.
808 स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः. पण्डितमात्मानं मन्यते पण्डितंमन्यः. पण्डितमानी..
803 आत्मामने खश्च। आत्मनः = स्वस्य, मानः = मननम् - आत्ममानः। तदाह– स्वकर्मके मनने इति। पण्डितम्भन्य इति। खशः शित्त्वेन सार्वधातुकत्वाच्छ्यन्। खित्त्वात् `अरुर्द्विषटदिति मुम्। तानादिकस्य मनेग्र्रहणे तु उविकरणः स्यात्। कालीमात्मानं मन्यते इत्यर्थे खशि श्यनि कृते आह– खित्यनव्यवयस्येति। `स्त्रियाः पुंव'दिति पुंवत्त्वं बाधित्वा परत्वाद्ध्रस्व इत्यर्थः। दिवामन्येति। अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम्।
663 आत्ममाने। मननं मानः, भावे घञ्, आत्मनो मान इति कर्मणि षष्ठ\उfffदा समासः। स्वपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थस्तदाह– स्वकर्मक इत्यादि। चादिति। ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत्। अत्राहुः– चकारेणाऽवच्छेदाय णिनिः समुच्चीयते। तेन `करणे यजः' इत्यादौ णिनिरेवाऽनुवर्तते न तु खश्ष एवं चोक्तप्रयोजनानुरोधेन `चानुकृष्टं नोत्तरत्रे' तीह न प्रवर्तते इति। पण्डितमात्मानमिति। एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं, पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम्। आत्ममाने किम् ?। दर्शनीयमानी देवदत्तो यज्ञदत्तस्य। कालिंमन्येति। `स्त्रियाः पुंव'दिति प्राप्तं पुंवद्भावं बाधित्वा पर्तवाद्ध्रस्वः। यत्त्वत्र `क्यङ्मानिनो'रिति प्राप्तः पुंवद्भाव इति प्रसादकृतोक्तं, तद्रभसोक्तमेव, मानिन्रूपाऽभावस्य स्पष्टत्वात्। दिवामन्येति। अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिस्वभावात्कर्मत्वम्।
वृत्तिः स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix), the verbal root √मन् (मनँ ज्ञाने ४. ७३) may take the the affix “खश्” – as well as the affix “णिनिँ” – provided the agent of the verbal root is also its object.
उदाहरणम् – पण्डितमात्मानं मन्यते पण्डितंमन्यः/पण्डितमानी।
The derivation of पण्डितमानी is similar to that of उष्णभोजी shown under 3-2-78, except that in the case of पण्डितमानी we use 7-2-116 instead of 7-3-86 which was used in the case of उष्णभोजी।
Now let us derive पण्डितंमन्यः।
पण्डित + ङस् (ref: 2-3-65) + मन् + खश् 3-2-83. The affix खश् has the सार्वधातुक-सञ्ज्ञा by 3-4-113.
Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-83 from the सूत्रम् 3-2-78) ends in the seventh (locative) case. Hence “पण्डित + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= पण्डित ङस् + मन् + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-68 to apply in the next step.
= पण्डित ङस् + मन् + श्यन् + अ 3-4-67, 3-1-69
= पण्डित ङस् + मन् + य + अ 1-3-3, 1-3-8, 1-3-9
= पण्डित ङस् + मन्य 6-1-97
Now we form the compound between “पण्डित ङस्” (which is the उपपदम्) and “मन्य” using the सूत्रम् 2-2-19. Note: Here “पण्डित ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “पण्डित ङस्” is placed in the prior position as per 2-2-30
“पण्डित ङस् + मन्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= पण्डित + मन्य 2-4-71
= पण्डित मुँम् + मन्य 6-3-67, 1-1-47
= पण्डितम् + मन्य 1-3-2, 1-3-3, 1-3-9. पण्डितम् gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step.
= पण्डितंमन्य 8-3-23
= पण्डितंमन्य/पण्डितम्मन्य 8-4-59