Table of Contents

<<3-2-52 —- 3-2-54>>

3-2-53 अमनुष्यकर्तृके च

प्रथमावृत्तिः

TBD.

काशिका

अमनुष्यकर्तृके वर्तमानाद् हन्तेः धातोः कर्मणि उपपदे टक् प्रत्ययो भवति। जायाघ्नस्तिलकालकः। पतिघ्नी पाणिरेखा। श्लेष्मघ्नं मधु। पित्तघ्नं घृतम्। अमनुष्यकर्तृके इति किम्? आखुघातः शूद्रः। इह कर्मान् न भवति, चौरघातो हस्ती? कृत्यल्युटो बहुलम् 3-3-113 इति बहुलवचनादण् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

781 अमनुष्य। अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः। जायाघ्नस्तिलकालक इति। तिलाकृतकृष्णबिन्दुरित्यर्थः। पूर्वसूत्रस्य लक्षणवति कर्तरि प्रवृत्तिरिति भावः। अथ कथमिति। प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसंभवादित्याक्षेपः। समाधत्ते– मूलविभुजादित्वात्सिद्धमिति। कप्रत्ययेनेति भावः। ननु `चोरघातो हस्ती'त्यादि कथम्, अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह– चोरघात इत्यादीति। बाहुलकादणीति। `कृत्यल्युटो बहुल'मिति बहुलग्रहणादणि समाधेयमिति भावः।

तत्त्वबोधिनी

648 अमनुष्यकर्तृके च। मनुष्यभिन्नकर्तृकेऽर्थे वर्तमानाद्धन्तेः कर्मणयुपपदे टक् स्यात्। यद्यप्यमनुष्यशब्दो रूढ\उfffदा रक्षः पिशाचादीनाहेति प्रागुक्तं,तथापीह लक्ष्यानुरोधेन व्याख्यातव्यमित्याशयेनाह— तिलकालक इत्यादि। `तिलकालक इत्यादि। `नानुबन्धकृतमसारूप्य'मिति टगणोः सारूप्याद्वासरूपविध्यप्रवृत्तेराह- - बाहुलकादिति।

Satishji's सूत्र-सूचिः

TBD.