TBD.
हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक् प्रत्ययो भवति। जायाघ्नो ब्राह्मणः पतिघ्नी वृषली। अथ वा लक्षणे द्योत्ये टक् प्रत्ययः।
TBD.
–
780 लक्षणे। लक्षणवतीति। सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः। जायाघ्नो नति। जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः। `गमहने'त्युपधालोपः। पतिघ्नी स्त्रीति। पतिहननसूचनलक्षणवतीत्यर्थः। टित्त्वान्ङीप्।
647 लक्षणवतीति। सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः। जायाघ्न इति। जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यवहारः। एवं पतिघ्नीत्यत्रापि बोध्यम्।
TBD.