Table of Contents

<<3-2-53 —- 3-2-55>>

3-2-54 शक्तौ हस्ति कपाटयोः

प्रथमावृत्तिः

TBD.

काशिका

शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोरुपपदयोः हन्तेः टक् प्रत्ययो भवति। मनुष्यकर्तृकार्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः। कं पाटयति प्रविशत इति कपाटघ्नश्चौरः। शक्तौ इति किम्? विषेण हस्तिनं हन्ति हस्तिघातः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

782 शक्तौ हस्तिकवाटयोः। हस्तिघ्न इति। हस्तिनं हन्तुं शक्त इत्यर्थः। एवं कवाटघ्नः।

तत्त्वबोधिनी

649 शक्तौ हस्ति। शक्तौ किम् ?। विषेण हस्तिनं हन्तीति हस्तिघातः। यद्यपीह शक्तिरस्ति, अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामथ्र्यात्प्रकर्षो विज्ञायते, तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्रते। कपाटघ्न इति। कं = शिरः पाटयति प्रविशत इति कपाटम्। पाठान्तरे तु अटतेः पचाद्यच्। `कवं चोष्णे' इत्यत्र योगविभागात्कोः कवादेश इति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.