Table of Contents

<<3-2-36 —- 3-2-38>>

3-2-37 उग्रम्पश्यैरम्मदपाणिन्धमाश् च

प्रथमावृत्तिः

TBD.

काशिका

उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उग्रं पश्यति इति उग्रम्पश्यः। इरया माद्यति इति इरम्मदः। पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

765 उग्रम्पश्य इति। खशि शप्, पश्यादेशः। इराशब्दस्य विवरणम्– उदकमिति। इरम्मद इति। `खित्यनव्ययस्ये'ति ह्यस्वः। मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह- - निपातनाच्छ्यन्नेति। पाणिन्धम इति। शपि `पाघ्रे'ति धमादेशः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.