3-2-2 दिवाविभानिशाप्रभाभास्कारान्तानन्ताऽदिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु
TBD.
कर्मणि सुपि इति च द्वयम् अप्यनुवर्तते। तत्र यथायोगं सम्बन्धः। दिवाऽअदिषु उपपदेषु करोतेर् धातोः टप्रत्ययो भवति। अहेत्वाद्यर्थ आरम्भः। दिवाशब्दो अधिकरणवचनः सुपि इत्यस्य विशेषणम्। दिवा करोति प्राणिनशचेष्टायुक्तानिति दिवाकरः। विभां करोति इति विभाकरः। निशाकरः। प्रभाकरः। भास्करः। सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः। कारकरः। अन्तकरः। अनन्तकरः। आदिकरः। बहुकरः। नान्दीकरः। किङ्करः। लिपिकरः। लिबिकरः। बलिकरः। भक्तिकरः। कर्तृकरः। चित्रकरः। क्षेत्रकरः। सङ्ख्या एककरः, द्विकरः, त्रिकरः। जङ्घाकरः। बाहुकरः। अहस्करः। यत्करः। तत्करः। धनुष्करः। अरुष्करः। किंयत्तद्बहुषु कृञो ऽज्विधानम्। किङ्करा। यत्करा। तत्करा। बहुकरा। अथवा अजादिषु पाठः करिस्यते।
TBD.
–
749 दिवाविभा। दिवा, विभाष निशा, प्रभा, भास्, कार, अन्त,अनन्त, आदि, बहु, नानदी, किम् लिपि लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र , सङ्ख्या, जङ्घा, बाहु, अहर्, यद् , तद्, धनुस्,अरुस्– एषां सप्तमविंशतेद्र्वन्द्वात्सप्तमी। एष्विति। `उपपदेष्वि'ति शेषः। अहेत्यादिष्वपीति। हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः। हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः। एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति। अत्र कर्मणीति सुपति चानुवृत्तं यथायोगमन्वेति। दिवाकर इति। दिवेत्याकारान्तमव्ययमह्नीत्यर्थे। तस्याऽधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम्। दिवा = अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः। विभाकर इति। विभां करोतीति विग्रहः। निशाकर इति। निशां करोतीति विग्रहः। एवं प्रभाकरः। भाः करोतीति विग्रहे `अतः कृकमी'त्यत्राऽत इति तपरकरणात्सत्वस्याऽप्राप्तेः `कुप्वो'रिति जिह्वामूलीयविसर्गावाशङ्क्याह– कस्कादित्वादिति। कारकरः, अन्तकरः, अनन्तकरः, आदिकर इति सिद्धवत्कृत्य आह– बहुकर इति। ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह– बहुशब्दस्येति। वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमित `बहुगमवतुडति सङ्ख्ये'त्यत्रोक्तम्। नान्दीकरः किह्कर इति सिद्धवत्कृत्य आह- - लिपिलिशब्दाविति। तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह- - सङ्ख्येति। `उदाह्यियते' इति शेषः। जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्दे `कुप्वो'रिति जिह्वामूलीयविसर्गावाशङ्क्याह– कस्कादित्वादिति। नञि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वात् `अतः कृकमी'त्यस्य न प्राप्तिरिति भावः। धनुष्करशब्दे आह– नित्यं समास इति। प्रत्ययवयवत्वात् `इदुदुपधस्य चे'त्यस्य न प्राप्तिरिति भावः। कृञोऽज्विधानमिति। टस्याऽपवादः। किङ्करेति। टप्रत्यये तु टित्त्वान्ङीपस्यादिति भावः। हेत्वादिषु पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः। तर्हि किङ्करीति कथमित्यत आह- - पुंयोगे ङीषिति। कर्मणि भृतौ। कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणाऽर्थम्। कर्मकरो भृतक इति। वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक इत्युच्यते।
625 दिवाविभा। ननु अन्तकरशब्देन नञ्समासे स्वीकृतेऽपीष्टसिद्धौ सूत्रे त्वन्तशब्दात्पृथगनन्तग्रहणं व्यर्थमिति चेत्। अत्राहुः– स्वरे तु विशेषोऽस्ति। नञ्समासे हि अव्ययपूर्वपदप्रकृतिस्वरेणाऽन्तोदात्त्वमिति। दिवाकर इति। दिवा = दिवसं करोतीति विग्रहः। दिवाभूता रात्रिरित्यादाविव दिवाशब्दस्य वृत्तिविषये शक्तिमत्परत्वात्। मूलेऽनुक्तान्यपि कानिचिदुदाहरणानि ऊह्रानि। कर एव कारः। प्रज्ञादित्वादण्। कारं करोतीति कारकरः,आदिकरः, नान्दीकरः, किंकरः, बलिकरः भक्तिकरः कर्तृकरः चित्रकरः, क्षेत्रकरः, जङ्घाकरः , बाहुकर इति। किंयत्तद्बहुषु कृञोऽज्विधानम्। वार्तिकमिति– कैयटहरदत्तादिरीत्योक्तम्। माधवस्तु इष्टिरियमित्याह। पुंयोगे ङीषिति। यत्तु न्यासकृतोक्तं– `हेत्वादिषु पूर्वसूत्रेण ट एव भवति, तेन किङ्करणशीला किङ्करीत्युपपन्नं भवतीत'ति तन्नादर्तव्यम्, परत्वादचा टचो बाधितत्वात्, पूर्वविप्रतिषेधस्य निर्मूलत्वाच्चेति भावः। वृत्तौ तु पक्षान्तरमप्युक्तम्– `अथवा पचादिषु पाठः करिष्यते' इति। `दिवाविभे'त्यस्मिन् सूत्रे किमादिग्रहणमनीय पचादिष्वेव `किंयत्तद्बुहुषु कृञः' इति पठितव्यं, वार्तिकमपीत्थमेव नेयमिति तस्याशयः। अस्मिन्पक्षे कर्मण्यणं बाधित्वा चरितार्थमिदं वनं हेत्वादिविवक्षायां परत्वाट्टेन बाध्यते, तेन पुंयोगं विनापिकिङ्करी स्यादेव, पुंयोगविवक्षायां तु निर्विवादो ङीष्, `किंयत्तद्बहुष्वज्वे'ति प्रक्रियायां विकल्पोक्तिस्त्वाकरविरुद्धत्वात्कर्मण्यणोऽपि पक्षे प्रसङ्गाचाचऽयुक्तैव। न चाऽजभावे `दिवाविभे'ति टः स्यादिति वाच्यम्, सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुक्तत्वात्। अथवा सूत्रे किमाद्यपनयनं मास्त्विति प्रौढिवादेन प्रक्रियाग्रन्थः प्रवृत्त इति स्वीक्रियते। तथा च हेत्वाद्यविवक्षायां `किंयत्त' दिति व#आर्तिकेनाऽच्, तद्विवक्षायां तु परत्वाट्ट इति विषयविशेषे व्याख्याभेदात् फलितं विकल्पमाश्रित्य प्रक्रियायामज्वेति प्राचोक्तमिति स्थितस्य गतिः समर्थनीया।
TBD.