Table of Contents

<<3-2-19 —- 3-2-21>>

3-2-20 कृञो हेतुताच्छील्याऽनुलोम्येषु

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने। हेतुः ऐकान्तिकं करणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यम् अनुकूलता। हेतौ तावत् शोककरी कन्या। यशस्करी विद्या। कुलकरं धनम्। ताच्छील्ये श्राद्धकरः। अर्थकरः। आनुलोम्ये प्रैषकरः। वचनकरः। एतेसु इति किम्? कुम्भकारः। नगरकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

797 एषु द्योत्येषु करोतेष्टः स्यात्..

बालमनोरमा

758 नाडीमुष्ट\उfffदोश्च। यथासङ्ख्यं नेष्यते इति। इदं तु भाष्ये स्पष्टम्। घटीखारीत्यादि स्पष्टम्।

तत्त्वबोधिनी

624 कृञो हेतु। हेतुरिह लोकिको न तु तत्प्रयोजको हेतुश्चे'ति कृत्रिमः, केवले कृञि तदसंभवात्। द्योत्येष्विति। न तु वाच्येषु, `कर्तरि कृ' दित्यस्य बाधानुपत्तेरिति भावः। हेत्वादिषु क्रमेणोदाहरति– यशस्करीत्यादि। एषु किम् ?। कुम्भकारः। इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्रते, न तु कृञ् हिंसायामिति। हेतुः- - कारणम्। आनुलोम्यमाराध्यित्तानुवर्तनम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एषु द्योत्येषु करोतेष्टः स्यात् । When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix “ट” to express the meaning of a cause or habitual/natural action or amiability (going with the grain.)

(हेतौ) उदाहरणम् – दुखं करोतीति दु:खकरम् (अज्ञानम्)। दु:खस्य हेतु: (अज्ञानम्) इत्यर्थ:।

दु:ख + ङस् (ref: 2-3-65) + कृ + ट 3-2-20
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “दु:ख ङस्” (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= दु:ख ङस् + कृ + अ 1-3-7, 1-3-9
= दु:ख ङस् + कर् अ 7-3-84, 1-1-51
= दु:ख ङस् + कर

Now we form the compound between “दु:ख ङस्” (which is the उपपदम्) and “कर” using the सूत्रम् 2-2-19. Note: Here “दु:ख ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “दु:ख ङस्” is placed in the prior position as per 2-2-30
“दु:ख ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= दु:खकर 2-4-71

(ताच्छील्ये) उदाहरणम् – दयां करोति तच्छीलो दयाकर: (सज्जन:)।
(आनुलोम्ये) उदाहरणम् – आज्ञां करोत्यनुलोम आज्ञाकर: (सेवक:)।

In the feminine -

(हेतौ) उदाहरणम् – यश: करोतीति यशस्करी (विद्या)। यशसो हेतु: (विद्या) इत्यर्थ:।

यशस् + ङस् (ref: 2-3-65) + कृ + ट 3-2-20
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “यशस् ङस्” (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= यशस् ङस् + कृ + अ 1-3-7, 1-3-9
= यशस् ङस् + कर् अ 7-3-84, 1-1-51
= यशस् ङस् + कर

Now we form the compound between “यशस् ङस्” (which is the उपपदम्) and “कर” using the सूत्रम् 2-2-19. Note: Here “यशस् ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “यशस् ङस्” is placed in the prior position as per 2-2-30
“यशस् ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= यशस् + कर 2-4-71. ‘यशस्’ gets the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62.
= यश: + कर 8-2-66, 1-3-2, 8-3-15. At that point 8-3-37 would apply, but the special सूत्रम् 8-3-46 comes into effect.

Example continued under 8-3-46