Table of Contents

<<3-2-170 —- 3-2-172>>

3-2-171 आदृगमहनजनः किकिनौ लिट् च

प्रथमावृत्तिः

TBD.

काशिका

आकारान्तेभ्यः ऋवर्णान्तेभ्यः गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु किकिनौ प्रतयौ भवतः। लिङ्वच् च तौ भवतः। आतिति तकारो मुखसुखार्थः, न त्वयं अपरः, मा भूत्तादपि परः तपरः इति ऋकारे तत्कालग्रहणम्। पपिः सोमं ददिर्गाः। ददथुः मित्रावरुणा ततुरिम् मित्रावरुणौ ततुरिः। दूरे ह्यध्वा जगुरिः। जग्मिर्युवा। जघ्निर्वृत्र। जज्ञि बिजम्। अथ किमर्थं कित्त्वम्, यावता असंयोगाल् लिट् कित् 1-2-5) इति कित्त्वं सिद्धम् एव इति लिटि गुणः प्रतिषेधविषय आरभ्यते, तस्य अपि बाधनार्थं कित्त्वम्। किकिनावुत्सर्गश् छन्दसि सदादिभ्यो दर्शनात्। सेदिः। नेमिः। भाषायां धञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ। दिधिः। चक्रिः। सस्त्रिः। जज्ञिः। जग्मिः। नेमिः। सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ। दीर्घो ऽकितः 7-4-83 सासहिः। वावहिः। चाचलिः। पापतिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

953 आदृगम। आत्, ऋ, गम, हन, जन्, एषां द्वन्द्वात्पञ्चमी।कि किन् अनयोद्र्वन्द्वः। लिट् चेति व्याचष्टे – तौ च लिड्वदिति। तच्छीलादिष्वित्येव। पपिरिति। पाधातोः किः। द्वित्वादि, आल्लोपः। ददिरिति। दाधातोः किः। द्वित्वादि। बभ्रिर्वज्रमिति। भृञः किः, द्वित्वादि। जघ्निरित। हनः किः। द्वित्वादि। `गमहने'त्युपधालोपः। `हो हन्ते'रिति कुत्वम्। जज्ञिरिति। जनेः किः। द्वित्वादि। एवं किन्यपि बोध्यम्। स्वरे विशेषः। छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवक्ष्यमाणवरातिकविवेचनाय इहोपन्यस्तम्। भाषायामिति। वार्तिकमिदम्। धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षड्भ्यः किकिनौ , तौ च लिड्वदिति वक्तव्यमित्यर्थः। दधिरित्यादि। किकिनोः कृतयोर्द्वित्वादि यथासंभवं ज्ञेयम्। नेमिरिति। नमेः किः। द्वित्वम्। एत्त्वाभ्यासलोपौ। सासहीति। सहेर्यङि द्वित्वादौ `दीर्गोऽकितः' इति दीर्घे, किकिनोः कृतयोः `यस्य हलः' इति यकारलोपे , अतो लोपे `सासही'ति निर्देशः। एवं वहेः चलेः पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः। एषां निपातनस्य उपसङ्ख्यानमित्यर्थः। तदाह– यङन्तेभ्यः सहत्यादिभ्य इति। नीगभाव इति। `नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याऽभावन इत्यर्थः।

तत्त्वबोधिनी

783 आदृग। `ऋदोर'बितिवदादिति दकारो मुखसुखार्थो, न त्वयं तकारः। तेन तत्परत्वाऽभावादृ इत्येनेन दीर्घोऽपि गृह्रते।ततुरिः। जगुरिः। तृ? प्लवनतरणयोरित्यस्य, गृ? निगरण इत्यस्य च `बहुलं छन्दसी' त्युत्वे रूपमिति प्राञ्चः। वस्तुतस्तु आदित्यादि प्रकृतिविशेषणम्। उदाहरणं प्रपञ्चमात्रम्। किकिनौ लिट्चेत्येतावन्मात्रमेव विवक्षितम्। तथा च वार्तिकं– `किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शना'दिति। उदाह्मतं च भाष्ये– सेहिर्नेमिरित्यादि। एवं स्थिते आदिति तपरकरणेऽपि न क्षतिरिति ध्वनयन्नाह– आदन्तादृदन्तादिति। बभ्रिर्वज्रमिति। `न लोके' ति षष्ठीनिषेधाद्द्वितीया। किकिनोः स्थाने तिबादयो न, `लिड्व'दित्यतिदेशेन स्वरूपाऽबाधेनैव कार्यातिदेशात्। छान्दससूत्रद्वयोपन्यसनं भाषायां धाञित्यादिवार्तिकविषयविवेचनार्थम्। इह च वार्तिके गमिर्यद्यपि न दृश्यते तथापि धातुवृत्तौ, क्वचिद्वृत्तिपुस्तके च दर्शनादुपन्यस्तः। जग्मिरिति। `गमहनजने'त्युपधालोपः। जघ्निरिति। `अभ्यासाच्चे'ति कुत्वम्। धाञ्कृसृगमिजनिनमिभ्यः। दधिरिति। आतो लोपः। नेमिरिति। एत्वाभ्यासलोपौ। सासहिवावहिचाचलिपापतीनामुपसङ्ख्यानम्। सासहीत्यादि। यङोऽतोलोपेयलोपः। अभ्यासदीर्घः। नीगभावश्चेति। `नीग्वञ्चु' इत्यादिना प्राप्तस्य नीगागमस्याऽभाव इत्यर्थः। तृष्णगिति। डित्त्वान्न गुणः। नजिङ इकार उच्चारणार्थः।

Satishji's सूत्र-सूचिः

TBD.