Table of Contents

<<3-2-171 —- 3-2-173>>

3-2-172 स्वपितृषोर्नजिङ्

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति निवृत्तम्। स्वपेः तृषेश्च तच्छीलादिषु कर्तृषु निजिङ् प्रत्ययो भवति। स्वप्नक्। तृष्णक्। धृषेश्चेति वक्तव्यम्। धृष्णक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

954 स्वपितृषोर्नजिङ्। पञ्चम्यर्थे षष्ठी। स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः। जकारादिकार उच्चारणार्थः। ङकार इत्। स्वप्नगिति। स्वपनशील इत्यर्थ-। स्वप्नजौ स्वप्नजः। एवं तृष्णक्। तर्षणशीलः इत्यर्थः। धृषेश्चेति। `नजि'ङिति शेषः। काशिकादाविति। भाष्ये तु न दृश्यते इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.