Table of Contents

<<3-2-169 —- 3-2-171>>

3-2-170 क्याच् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

क्य इति क्यच्क्यङ्क्यषां सामान्येन ग्रहणम्। क्यप्रत्ययान्ताद् धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु उकारप्रत्ययो भवति। मित्रयुः। न छन्दस्यपुत्रस्य 7-4-35 इति प्रतिषेधाद् न धीर्घः। सुम्नयुः। संस्वेदयुः छन्दसि इति किम्? मित्रीयिता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

952 क्याच्छन्दसि। क्यप्रत्ययान्तादुप्रत्ययः स्यात्तच्छीलादिषु छन्दसीत्यर्थः। सुम्नयुरिति। सुम्नं - सुखम्।तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच्। `न च्छन्दस्यपुत्रस्ये'ति निषेधात् `क्यचि चे'ति ईत्त्वम्, `अकृत्सार्वे'ति दीर्गश्च न। `सुम्नये'ति क्यजन्तादुप्रत्ययः। अतो लोपः।

तत्त्वबोधिनी

782 क्याच्छन्दसि। `क्य' इति क्यच्क्यष्क्यङां सामान्यग्रहमम्। क्यन्ताद्धातोश्छन्दसि विषये ताच्छीलादिषु उप्रत्ययो भवतीति काशिका। किद्यः क्य इति व्याख्यानात्कण्ड्वादियगपि गृह्रते। तेन `तुरण्यवोऽङ्गिरसो नक्षन्त', `सपर्येम सपर्यवः', `यमस्य योनौ शकुनं भुरण्यु'मित्यादि सिद्धम्। तुरण त्वरायां , सपर पूजयां, भुरण धारणपोषणयोरित्येते कण्ड्वादिषु पठिताः। अथ कथं `सन्तः प्रणयिवाक्यानि गृह्णन्ति ह्रनसूयवः' इति भट्टपादाः ?। मृगय्वादिषु असूयशब्दो द्रष्टव्य इति हरदत्तः। सुम्नयुरिति। सुम्नशब्दात्क्यचि तदन्तादुः। `न छन्दस्यपुत्रस्ये'ति निषेधात् `क्यचि चे'ति ईत्वम्, `अकृत्सार्वे'ति दीर्घश्च न भवति।

Satishji's सूत्र-सूचिः

TBD.