Table of Contents

<<3-2-162 —- 3-2-164>>

3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्

प्रथमावृत्तिः

TBD.

काशिका

इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस् तुगर्थः इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृट्वरः। सृत्वरी। नेड्वशि कृति 7-2-8 इति इट्प्रतिषेधः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

945 इण्नशिजि। इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः। कित्त्वान्न गुणः। पित्त्वं तु तुगर्थम्।

तत्त्वबोधिनी

777 इत्वरः। इत्वरीति। इण् गतौ `ह्यस्वस्य पिती'ति तुक्। कित्त्वाद्गुणाऽभावः। `टिड्ढे'त्यादिना स्त्रियां ङीप्।

Satishji's सूत्र-सूचिः

TBD.