Table of Contents

<<7-2-7 —- 7-2-9>>

7-2-8 नैड् वशि कृति

प्रथमावृत्तिः

TBD.

काशिका

वशादौ कृति प्रत्यये परतः इडागमो न भवति। वरमनादौ प्रयोजनम्। ईशिता। ईशितुम्। ईश्वरः। दीपिता। दीपितुम्। दीप्रः। भसिता। भसितुम्। भस्म। याचिता। आचितुम्। याच्ञा। वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम्। तेन ञमन्ताड्डः इत्येवम् आदावपि हि प्रतिषेधो भवति। अथ तत्र उणादयो बहुलम् 3-3-1 इति समाधीयते? सम्भवोदाहरनप्रदर्शनम् एतत्। कृति इति किम्? रुदिवः। रुदिमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

803 वशादेः कृत इण् न स्यात्.. शॄ हिंसायाम्.. सुशर्मा प्रातरित्वा..

बालमनोरमा

791 नेड्वशि कृति। षष्ठ\उfffद्र्थे सप्तम्यौ। वशा कृद्विशेष्यते। तदादिविधिः। तदा- - वशादेरिति। सुशर्मेति। शृ?धातोर्मनिन्। प्रातरित्वेति। इण्धातोः क्वनिप्।

तत्त्वबोधिनी

656 सुशर्मेति। सुष्टु शृणातीति वग्रहः। प्रातः एतीति प्रातरित्वा। इणः क्वनिपि `ह्यस्वस्य पिती'ति तुक्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः वशादेः कृत इण् न स्‍यात् । A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

Example continued from 3-2-107

जगम् + वस् 7-2-8 prohibits the affix ‘वस्’ from taking the augment ‘इट्’ (by 7-2-35), but the सूत्रम् 7-2-13 intervenes.

Example continued under 7-2-13