Table of Contents

<<3-2-161 —- 3-2-163>>

3-2-162 विदिभिदिच्छिदेः कुरच्

प्रथमावृत्तिः

TBD.

काशिका

ज्ञानार्थस्य विदेः ग्रहणं न लाभाद्यर्थस्य, स्वभावात्। विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच् प्रत्ययो भवति। विदुरः पण्डितः। भिदुरं काष्ठम्। छिदुरा रज्जुः। भिदिच्छिद्योः कर्मकर्तरि प्रयोगः। व्यधेः सम्प्रसारणं कुरच् च वक्तव्यः। विधुरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

944 विदिभिदि। तच्छीलादिष्वित्येव। विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः। विदुर इत्यादौ कित्त्वान्न लघूपधगुणः।

तत्त्वबोधिनी

776 विदिभिदि। विदेज्र्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात्। छिदुरमिति। कर्मकर्तरि प्रत्यय इति वृत्तिः। नैतद्भाष्ये दृष्टम्। तथा च माघो मुख्ये कर्तरि प्रायुङ्क्त–`प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना' इति। इह अदुरिति च्छेदः।

Satishji's सूत्र-सूचिः

TBD.