Table of Contents

<<3-2-133 —- 3-2-135>>

3-2-134 आ क्वेः तच्छीलतद्धर्मतत्साधुकारिषु

प्रथमावृत्तिः

TBD.

काशिका

भ्राजभासधुर्विद्युतौउर्जिपृ\उ0304जुग्रावस्तुवः क्विप् 3-2-177 इति क्विपं वक्ष्यति। आ एतस्मात् क्विप् संशब्दाद् यानित ऊर्ध्वमनुक्रमिष्यामस् तच्छीलादिषु कर्तृषु ते वेदितव्याः। अभिविधौ च अयम् आङ्। तेन क्विपो ऽप्ययम् अर्थनिर्देशः। तदिति धात्वर्थः शीलादि विशेषणत्वेन निर्दिश्यते। तच्छीलो यः स्वभावतः फलनिरपेक्षस् तत्र प्रवर्तते। तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन। तत्साधुकरी यो धात्वर्थं साधु करोति। उत्तरत्रैव उदाहरिष्यामः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

840 कर्ता कटान्..

बालमनोरमा

916 आ क्वेः। आङभिविधौ। तदाह– क्विपमभिव्याप्तेति। `भ्राजभासधुर्विद्युतोर्जिपृ?जुग्रावस्तुवः क्वि' बिति सूत्रमभिव्याप्येति यावत्। तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति `आढ\उfffद्सुभगे' ति सूत्रे भाष्ये स्पष्टम्। तच्छीलः = तत्स्वभावः। फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत्। स धर्मो यस्य स तद्धर्मा। स्वधर्मोऽयमिति प्रवर्तमानः। तस्या = धात्वर्थस्य साधुकर्ता तत्साधुकारी।

तत्त्वबोधिनी

752 आ क्वेः। शीलादीनां त्रयाणां विशेषणं समर्थयितुं निर्दिष्टैस्त्रिभिस्तच्छब्दैः प्रकृतिभूतधात्वर्थो निर्दिश्यते। क्विपमभिव्याप्तेति। `भ्राजभासधुर्विद्युतोर्जी'ति वक्षमाण'मिति शेषः। कर्ता कटानीति। `न लोकाव्यये'ति षष्टीनिषेधः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः क्विपमभिव्‍याप्‍य वक्ष्यमाणाः प्रत्‍ययास्‍तच्‍छीलादिषु कर्तृषु बोध्‍याः । The affixes prescribed from here up to and including the affix ‘क्विँप्’ (that is up to 3-2-178) are to be understood to denote an agent who performs an action because of his nature/habit or sense of duty or skill.