Table of Contents

<<3-2-134 —- 3-2-136>>

3-2-135 तृन्

प्रथमावृत्तिः

TBD.

काशिका

सर्वधातुभ्यः तृन्प्रत्ययो भवति तच्छीलादिषु कर्तृषु। नकारः स्वरार्थः। तच्छीले तावत् कर्ता कटान्। वदिता जनापवादान्। तद्धर्मणि मुण्डयितारः श्राविष्ठायनाः भवन्ति वधूमूढाम्। अन्नमपहर्तारः आह्वरकाः भवन्ति श्राद्धे सिद्धे। उन्नेतारः तौल्वलायनाः भवन्ति पुत्रे जाते। तत्साधुकारिणि कर्ताकटम्। गन्ता खेटम्। तृन्विधावृत्विक्षु च अनुपसर्गस्य। होता। पोता। अनुपसर्गस्य इति किम्? उद्गाता। प्रतिहर्ता। तृजेव भवति। स्वरे विशेषः। नयतेः षुक् च। नेष्टा। त्विषेर् देवतायाम् अकारश्च उपधाया अनिट्त्वं च। त्वष्टा। क्षदेश्च नियुक्ते। क्षत्ता। क्वचिदधिकृत उच्यते। छन्दसि तृच् च। क्षतृभ्यः सङ्ग्रहीतृभ्यः। स्वरे विशेषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

917 तृन्। धातोस्तृन्प्रत्ययः स्यात्तच्छीलादिषु कर्तृषु। तच्छीले उदाहरति– कर्ता कटमिति। कटकरणक्रियाशील इत्यर्थः। `न लोके'ति षष्ठीनिषेधः, `न लोके'ति सूत्रे `तृ'न्नित्यनेन `लटः शत' इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहारश्रयणात्। तद्धर्मणि यथा– `मुण्डयितारः श्राविष्ठायना भवन्ति ऊढां वधूम्?'। श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः। तत्साधुकारिणि `कर्ता कट'मित्येवोदाहरणम्।कटं साधु करोतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः सर्वधातुभ्यस्तृन् स्यात् तच्‍छीलादिषु कर्तृषु । Following any verbal root, the affix ‘तृन्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill.

उदाहरणम् – कर्ता कटान् ।