Table of Contents

<<3-2-176 —- 3-2-178>>

3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌

प्रथमावृत्तिः

TBD.

काशिका

भ्राजादिभ्यः धातुभ्यस् तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति। विभ्राट्, विभ्राजौ, विभ्राजः। भाः, भासौ, भसः। धूः, धुरौ, धुरः। विद्युत्, विद्युतौ, विद्युतः। ऊर्क्, ऊर्जौ, ऊर्जः। पूः, पुरौ, पुरः। जवतेर् दीर्घश्च निपात्यते। जूः जुवौ, जुवः। ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः। किमर्थम् इदम् उच्यते, यावता अन्येभ्यो ऽपि दृश्यन्ते 3-2-75), क्विप् च (*3,2.76 इति क्विप् सिद्ध एव? ताच्छीलिकैर् बाध्यते। वा ऽसरूपविधिर् न अस्ति इत्युक्तम्। अथ तु प्रायिकम् एतत्। ततस् तस्य एव अयं प्रप्ञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

844 विभ्राट्. भाः..

बालमनोरमा

959 भ्राजभास। भ्राज, भास , धुर्वि, द्युत, ऊर्जि, पृ? , जु, ग्रावस्तु, एभ्योऽष्टभ्यः क्विप्स्यात्तच्छीलादिषु कर्तृष्वित्यर्थः। विभ्राडिति। `व्रश्चे'ति षः। भा इति। भासेः क्विपि सकारान्तस्य रुत्वविसर्गौ। धूरिति। धुर्वीधातोः क्विप्। `राल्लोपः' इति वकारस्य लोपः। `धु'रिति रेफान्तम्। सुलोपः। `र्वोरुपधायाः' इति दीर्घः। पूरिति। पृ?धातोः क्विप्। `उदोष्ठ\उfffदे'त्युत्त्वम्, रपरत्वम्। `पु'रिति रेफान्तम्, सुलोपे `र्वो'रिति दीर्घः। जुधातोः क्विपि दीर्घं साधयितुमाह- - दृशिग्रहणस्याप्यपकर्षादिति। उत्तरसूत्रादिति भाव-। अत्र व्याख्यानमेव शरणम्। ननु `ग्रावस्तु' इति कथं समस्तनिर्देशः, सुबन्तस्य ग्रावशब्दस्य धातुना समासाऽसंभवादित्यत आह– ग्रावशब्दस्येति। ग्रावस्तुदिति। पित्त्वात्तुक्।

तत्त्वबोधिनी

786 भ्राज। ` आ क्वे' रित्युक्तत्वात्?तच्छीलादिष्वयं क्विप्। भ्राजृ दीप्तौ, भासृ दीप्तौ, धुर्वी हिंसायां, द्युत दीप्तौ, ऊर्ज बलप्राणनयोः, पृ? पालनपूरणयोः, जु गतौ सौत्रः। ग्रावपूर्वः– ष्टुञ् स्तुतौ। विभ्राडिति। `व्रश्चे'ति षत्वम्। जश्त्वचर्त्वे। धूरिति। `राल्लोपः' इति वलोपः। `र्वोरुपधायाः' इति दीर्घः। ऊर्गिति। `चोः कुः'। `रात्सस्ये'ति नियमान्न संयोगान्तलोपः। पूरिति। `उदोष्ठ\उfffद्पूर्वस्ये'त्युत्वम्। `र्वो'रिति दीर्घः। क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च। वाक् प्राडिति। इह दीर्घः, संप्रसारणाऽभावश्च। संप्रसारणप्राप्तिस्तु `वचिस्वपि' `ग्रहिज्यावयी'त्यादिना। श्रयति हरिं श्रीरिति। प्राचा तु श्रयन्त्येतामिति कर्मणि क्विबुदाह्मतः। तत्र `कर्तरि कृ'दिति सूत्रविरोधः स्पष्ट एव। बाहुलकं तु अगतिकगतिः। अभ्याससंज्ञेह दुर्लभा, प्रत्यासत्त्या षाष्ठद्वित्व एव प्रवृत्तेः, अतएव आष्ठमिके सा नेत्याशङ्कायामाह– दृशिग्रहणादिति। दिद्युदिति। `द्युतिस्वाप्यो'रित्यभ्यासस्य संप्रसारणम्। जगदिति।`गमः क्वौ' इति मलोपे तुक्। अत्र द्वे चे'ति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति, दीर्घश्रुत्या `अचश्चे'ति परिभाषोपस्थानात्। अजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह—- जुहोतेर्दीर्घश्चेति। जुहोतीति जुहूः।\त्

ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसंमतत्वात् कथं तर्हि भवदुक्तार्थः सङ्गच्छत इति चेत्। अत्राह हरदत्तः- करणस्य कर्तृत्वविवक्षायां क्विब् भवति।

Satishji's सूत्र-सूचिः

वृत्तिः एभ्य: ‘क्विँप्’ स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below -
(i) √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७)
(ii) √भास् (भासृँ दीप्तौ १. ७११)
(iii) √धुर्व् (धुर्वीँ हिंसार्थ: १. ६५४)
(iv) √द्युत् (द्युतँ दीप्तौ १. ८४२)
(v) √ऊर्ज् (ऊर्जँ बलप्राणनयोः १०. २३)
(vi) √पॄ (पॄ पालनपूरणयोः ३. ४)
(vii) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(viii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘ग्रावन्’

उदाहरणम् – भासते तच्छीला = भा: ।