Table of Contents

<<3-2-132 —- 3-2-134>>

3-2-133 अर्हः प्रशंसायाम्

प्रथमावृत्तिः

TBD.

काशिका

प्रशंसा स्तुतिः। अर्हतेर् धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायाम् इति किम्? अर्हति चौरो वधम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

915 अर्हः प्रशंसायाम्। अर्ह इति पञ्चमी। `शतृप्रत्यय' इति शेषः। अर्हन्निति। पूजां प्राप्तुं योग्य इत्यर्थः। अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते।

तत्त्वबोधिनी

751 अर्हः। प्रशंसायां किम् ?। अर्हति चौरो वधम्।

Satishji's सूत्र-सूचिः

TBD.