TBD.
पूङो यजेश्च धातोः शानन् प्रत्ययो भवति। पवमानः। यजमानः। यदि प्रत्ययाः शानन्नादयः न लाऽदेशाः, कथं सोमं पवमानः, नडमाघ्नानः इति षष्ठीप्रतिषेधः? तृनिति प्रत्याहारनिर्देशात्। क्व संनिविष्टानां प्रत्याहारः? लटः शतृशानचावप्रथमासमानाधिकरणे 3-2-124 इत्यतः प्रभृति आ तृनो नकारात्। द्विषः शतुर्वा वचनम्। चौरस्य द्विषन्, चौरं द्विषन्।
TBD.
–
910 पूङ्यजोः शानन्। पञ्चम्यर्थे षष्ठी। वर्तमाने इति। शेषपूरणमिदम्। `वर्तमाने ल'डित्यतस्तदनुवृत्तेरिति भावः। लड्ग्रहणं तु निवृत्तम्। ततश्च ण्वुलादिवत्स्वतन्त्रोऽयं , न तु शत्रादिवल्लादेशः। तथा च कर्तर्येवायं, न तु भावकर्मणोः। न च लादेशत्वाऽबावे `सोमं पवमानट इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यं, `न लोके'ति सूत्रे `तृन्' इति प्रत्याहार इत्युक्तत्वात्।
747 पूङ्यजोः। शाननः शकारः सार्वधातुकत्वार्थः। नकारः स्वरार्थः। ण्वुलादिवत्स्वतन्त्रोऽयं न तु शत्रादिवल्लादेशः, तथाहि सति वेति वाच्यं स्यात्, पवते यजते इति तिङोऽपि यथा स्युरिति। न च वाऽसरूपन्यायेन निर्वाहः,लादेशेषु वाऽसरूपविधिर्नास्तीत्याकरे स्थितत्वात्।किंच लादेशत्वे `लः कर्मणि चे' ति भावकर्मणोर्विहितस्य लस्यापि भावकर्मणोरपि प्रयुज्येत, इष्यते तु कर्तर्येव। एवं चानशः `इङ्घार्यो' रिति शतुश्च स्वातन्त्र्यं बोध्यम्। अत्र केचित्- शाननो लादेशत्वे लसार्वधातुकानुदात्तत्वं स्यादित्याहुः। तच्चिन्त्यम्। परत्वान्नित्स्वरप्रवृत्त्या पवमान इत्यादेराद्युदात्तत्वे शाननोऽनुदात्तत्वस्येष्टत्वात्। नन्वेषां लादेशत्वाऽनङ्गीकारे `सोमं पवमान' इत्यादौ कर्मणि षष्टी स्यादिति चेन्मैवम्। `न लोके' ति सूत्रे तृन्निति प्रत्याहारनिर्देश इत्युक्तत्वात्।
TBD.