Table of Contents

<<3-2-123 —- 3-2-125>>

3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे

प्रथमावृत्तिः

TBD.

काशिका

लटः शतृशानचौ इत्येतावादेशौ भवतः, अप्रथमान्तेन चेत् तस्य सामानाधिकरण्यं भवति। पचन्तं देवदत्तं पश्य। पचमानं देवदत्तं पश्य। पचता कृतम्। पचमनेन कृतम्। अप्रथमासमानाधिकरणे इति किम्? देवदत्तः पचति। लटिति वर्तमने पुनर् लङ्ग्रहणम् अधिकविधानार्थम्। क्वचित् प्रथमासमानाधिकरणे ऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा 3-2-121 इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

834 अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः. शबादि. पचन्तं चैत्रं पश्य..

बालमनोरमा

902 लटः शतृशानचौ। `वर्तमाने ल'डिति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ, अनन्तरस्येति न्यायादिति `वर्तमानसामीप्ये' इत्यादिभाष्ये स्पष्टम्। शतृप्रत्यये शकारऋकारावितौ। पचन्तमिति। पाकानुकूलव्यापाराश्रयमित्यर्थः, `क्रियाप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि'ति सिद्धान्तात्। शतुः शित्त्वेन सार्वधातुकच्छपि `अतो गुणे' इति पररूपम्। शानचि शाचवितौ।

तत्त्वबोधिनी

743 लटः शतृ। सामनाधिकरण्ये सतीति। यद्यप्यादेशरहितस्य लटः प्रयोगाऽभावात्सामानाधिकरण्यं दुर्लभं तथापि शतृशानचोस्तद्दृष्ट्वा स्थानिन्यपि सामानाधिकरण्यं कल्प्यते। शबादीति। शित्त्वेन सार्वधातुकत्वादिति भावः। पचन्तमिति। शतुरुगित्त्वान्नुम्। विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अप्रथमान्‍तेन सामानाधिकरण्ये सतीत्यर्थ: । The affix ‘लँट्’ is replaced by ‘शतृँ’/'शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in nominal ending other than the nominative.

उदाहरणम् – पचन्‍तं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘पचत्’ is derived from the verbal root √पच् (डुपचँष् पाके १. ११५१)
पच् + लँट् 3-2-123
= पच् + ल् 1-3-2, 1-3-3, 1-3-9
= पच् + शतृँ 3-2-124, 1-3-78, 1-4-99
= पच् + अत् 1-3-2, 1-3-8, 1-3-9
= पच् + शप् + अत् 3-1-68
= पच् + अ + अत् 1-3-3, 1-3-8, 1-3-9
= पचत् 6-1-97. ‘पचत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
पचत् + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= पच नुँम् त् + अम् 7-1-70, 1-1-47
= पच न् त् + अम् 1-3-2, 1-3-3, 1-3-9
= पचंतम् 8-3-24
= पचन्तम् 8-4-58

उदाहरणम् – वहन्तीं गङ्गां पश्‍य ।

The प्रातिपदिकम् ‘वहत्’ is derived from the verbal root √वह् (वहँ प्रापणे १. ११५९). The derivation is similar to that of the प्रातिपदिकम् ‘पचत्’ shown above.

The विवक्षा is स्त्रीलिङ्गे द्वितीया-एकवचनम्।
वहत् + ङीप् 4-1-6
= वहत् + ई 1-3-3, 1-3-8, 1-3-9
= वह नुँम् त् + ई 7-1-81, 1-1-47
= वहन्ती 1-3-2, 1-3-3, 1-3-9
= वहंती 8-3-24
= वहन्ती 8-4-58
वहन्ती + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= वहन्तीम् 6-1-107

उदाहरणम् – शयानं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘शयान’ is derived from the verbal root √शी (शीङ् स्वप्ने २. २६)
शी + लँट् 3-2-123
= शी + ल् 1-3-2, 1-3-3, 1-3-9
= शी + शानच् 3-2-124, 1-3-12, 1-4-100
= शी + आन 1-3-3, 1-3-8, 1-3-9
= शी + शप् + आन 3-1-68
= शी + आन 2-4-72
= शे + आन 7-4-21
= शय् + आन 6-1-78
= शयान । ‘शयान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
शयान + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= शयानम् 6-1-107

लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । (from सिद्धान्तकौमुदी)

उदाहरणम् – सन् ब्राह्मण: ।

The प्रातिपदिकम् ‘सत्’ is derived from the verbal root √अस् (असँ भुवि २. ६०)
अस् + लँट् 3-2-123
= अस् + ल् 1-3-2, 1-3-3, 1-3-9
= अस् + शतृँ 3-2-124, 1-3-78, 1-4-99
= अस् + अत् 1-3-2, 1-3-8, 1-3-9
= अस् + शप् + अत् 3-1-68
= अस् + अत् 2-4-72. The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4. This allows 6-4-111 to apply in the next step.
= स् + अत् 6-4-111 = सत् । ‘सत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
सत् + सुँ 4-1-2
= सत् + स् 1-3-2, 1-3-9
= स नुँम् त् + स् 7-1-70, 1-1-47
= स न् त् + स् 1-3-2, 1-3-3, 1-3-9
= स न् त् 6-1-68
= सन् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.