Table of Contents

<<3-2-128 —- 3-2-130>>

3-2-129 ताच्छीयवयोवचनशक्तिषु चानश्

प्रथमावृत्तिः

TBD.

काशिका

ताच्छील्यं तत्स्वभावता। वयः शरीरावस्था यौवनादिः। शक्तिः सामर्थ्यम्। ताच्छील्यादिषु धातोः चानश् प्रत्ययो भवति। ताच्छील्ये तावत् कतीह मुण्डयमानाः। कतीह भूषयमाणाः। वयोवचने कतीह कवचं पर्यस्यमानाः। कतीह शिखण्डं वहमानाः। शक्तौ कतीह निघ्नानाः। कतीह पचमानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

911 ताच्छील्य। चानशि शचावितौ। भोगं भुञ्जान इति। भोगशील इत्यर्थः। कवचं विभ्राण इति। यौवनबालदिति भावः। शत्रुं निघ्ना इति। निहन्तुं शक्त इत्यर्थः। अतः परत्वाऽभावान्न मुक्। चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः।

तत्त्वबोधिनी

748 ताच्छील्य। वचनग्रहणं स्पष्टार्थम्।चानशो लादेशत्वाऽभावेनाऽत्मनेपदत्वाऽभावात्परमैपदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति– निघ्नान इति। `गमहने'त्युपधालोपः।

Satishji's सूत्र-सूचिः

TBD.