Table of Contents

<<3-2-120 —- 3-2-122>>

3-2-121 नन्वोर् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

भूते इत्येव। नशब्दे नुशब्दे च उपपदे पृष्टप्रतिवचने विभषा लट् प्रत्ययो भवति भूते। अकार्षीः कटं देवदत्त? न क्रोमि भोः, नाकार्षम्। अहं नु करोमि, अहं नु अकार्षम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

605 नन्वोर्विभाषा। न नु अनयोद्र्वन्द्वः। तदाह– नशब्दे नुशब्दे चेति. लड्वा स्यादिति `भूते' इति शेषः। अकार्षीः किमिति प्रश्नः। न कोरमि, नाकार्षमित्युत्तरम्। अहं नु करोमि, अहं न्वकार्षमिति च। `तर्के नु स्या'दित्यमरः।

तत्त्वबोधिनी

497 नन्वोः। भृत इत्येव। पक्षे लुङ्। अनद्यतने तु लङ्। पक्षे यथाप्राप्तमिति। लुङ्लटोरभावपक्षे लङ्, पारोक्ष्ये तु लिडित्यर्थः। भविष्यतीति। `भविष्यति गम्यादयः' इति सूत्रात्।

Satishji's सूत्र-सूचिः

TBD.