Table of Contents

<<3-2-121 —- 3-2-123>>

3-2-122 पुरि लुङ् च अस्मे

प्रथमावृत्तिः

TBD.

काशिका

अनद्यतनग्रहणम् इह मण्डूकप्लुत्या ऽनुवर्तते। पुराशब्दे उपपदे स्मशब्दवर्जिते भूतानद्यतने ऽर्थे विभाषा लुङ् प्रत्ययो भवति, लट् च। ताभ्यां मुक्ते पक्षे यथाविषयमन्ये ऽपि प्रत्यया भवन्ति। वसन्ति इह पुरा छात्राः, अवात्सुरिह पुरा छात्राः, अवसन्निह पुरा छात्राः, ऊषुरिह पुरा छात्राः। अस्मे इति किम्? नडेन सम् पुरा अधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

606 पुरि लुङ् चास्मे। `अस्मे इति च्छेदः। पुरेत्याकारान्तमव्यम्। पुरीति तस्य सप्तम्येकवचनम्। आत इति योगविभाघादाल्लोपः। मण्डूकप्लुत्येति। अत्र व्याख्यानमेव शरणम्। चाल्लडिति। तथा च लुङ् लट् च वेति फलितम्। पक्षे इति। एतदुपभयाऽभावपक्षे इत्यर्थः। यथाप्राप्तमिति। अनद्यतनपरोक्षभूते लिट्। परोक्षत्वाऽविवक्षायां तु लङित्यर्थः। `अभिज्ञावचने ' इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः। अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते। भविष्यतीत्यनुवर्तमाने इति। `भविष्यति गम्यादयः' इति सूत्रादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.