Table of Contents

<<3-2-104 —- 3-2-106>>

3-2-105 छन्दसि लिट्

प्रथमावृत्तिः

TBD.

काशिका

भूते इत्येव। छन्दसि विषये धातोः लिट् प्रत्ययो भवति। अहं सूर्यमुभयतो ददर्श। अहं ध्यावापृथिवी आततान। ननु च छ्न्दसि लुड्लङ्लिटः 3-4-6 इति सामान्येन लिट् विहित एव? धातुसम्बन्धे स विधिः, अयं त्वविषेषेण।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

896 छन्दसि लिट्।

तत्त्वबोधिनी

738 छन्दसि लिडिति सूत्रस्यार्थमाह–भूतसामान्ये इति। न च `छन्दसि लुङ्लङ्लिटः' इत्यनेन गतार्थता शङक्या, धातुसंबन्धाधिकारे हि स विधिः, इदं तु धातुसंबन्धं विनापि भवतीति विशेषात्। अत्र व्याचख्युः–कानचः कित्करणं तिस्तिराण इत्यत्र `ऋच्छत्यृ?ता'मिति गुणस्य निषेधार्थं सति प्रतिषेधविषये आरभ्यते। `चक्राण' इत्यत्र तु `असंयोगाल्लिट्व'दित्येव सिद्धं कित्त्वमिति। सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च, भाष्यवार्तिकयोरपि क्वसुकानचोः `छन्दस्युभयथे'ति वचनात्सार्वधातुकत्वेन `सार्वधातुकमपि' दिति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशङ्क्य तितीर्वान् तिस्तिराण इत्यादौ `ऋच्छत्यृ?ता'मिति प्राप्तस्य गुणस्य बाधानार्थं कित्करणमिति सिद्धान्तितत्वात्। अत एव कित्करणसामथ्र्याद्भाषायामपि क्वसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः। कवयरित्वति। गतानुगतिकतयेति भावः।

Satishji's सूत्र-सूचिः

TBD.