Table of Contents

<<3-2-103 —- 3-2-105>>

3-2-104 जीर्यतेरतृन्

प्रथमावृत्तिः

TBD.

काशिका

भूते 3-2-74 इति वर्तते। जीर्यतेः अतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वा असरूपेण निष्ठा, जीर्णः, जीर्णवानिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

895 जीर्यतेरतृन्। भूते इत्येवेति। भूतार्थवृत्तेर्जृ?धातोरतृन् स्यादित्यर्थः। ऋकारनकारावितौ। अत्प्रत्ययः शिष्यते। जरन्निति।उगित्त्वान्नुम्। जीर्ण इति। `ऋत इत्'। रपरत्वम्। `\थलि च' इति दीर्घः। निष्ठानत्वम्।

तत्त्वबोधिनी

736 जरन्निति। ऋकारस्य गुणे रपरोऽकारः। `उगितदचा'मिति नुम्। संयोगान्तलोपस्याऽसिद्धत्वान्न दीर्घः।

Satishji's सूत्र-सूचिः

TBD.