Table of Contents

<<3-2-103 —- 3-2-105>>

3-2-104 जीर्यतेरतृन्

प्रथमावृत्तिः

TBD.

काशिका

भूते 3-2-74 इति वर्तते। जीर्यतेः अतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वा असरूपेण निष्ठा, जीर्णः, जीर्णवानिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

895 जीर्यतेरतृन्। भूते इत्येवेति। भूतार्थवृत्तेर्जृ?धातोरतृन् स्यादित्यर्थः। ऋकारनकारावितौ। अत्प्रत्ययः शिष्यते। जरन्निति।उगित्त्वान्नुम्। जीर्ण इति। `ऋत इत्'। रपरत्वम्। `\थलि च' इति दीर्घः। निष्ठानत्वम्।

तत्त्वबोधिनी

736 जरन्निति। ऋकारस्य गुणे रपरोऽकारः। `उगितदचा'मिति नुम्। संयोगान्तलोपस्याऽसिद्धत्वान्न दीर्घः।

Satishji's सूत्र-सूचिः

TBD.