Table of Contents

<<3-1-95 —- 3-1-97>>

3-1-96 तव्यत्तव्यानीयरः

प्रथमावृत्तिः

TBD.

काशिका

धातोः 3-1-91 इति वर्तते। धातोः तव्यत्, तव्य, अनीयरित्येते प्रयया भवन्ति। तकाररेफौ स्वरार्थौ। कर्तव्यम्। कर्तव्यम्। कर्णीयम्। वसेस्तव्यत् कर्तरि णिच्च। वास्तव्यः। केलिमर उपसङ्ख्यानम्। पचेलिमाः माषाः। भिदेलिमानि काष्ठानि। कर्मकर्तरि च अयम् इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

655 तव्यत्तव्यानीयरः। तव्यत् तव्य अनीयर् एषां द्वन्द्वः। प्रत्ययाः स्युरिति। ते कृत्संज्ञकाः, कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम्। स्वरार्थाविति। `तित्स्वरित'मिति, `उपोत्तमं रिति' इति च स्वरविशेषार्थावित्यर्थः। निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्तत्वमेवेति बोध्यम्। भावे उदाहरति– एधितव्यमिति। त्वत्कर्तृका एधनक्रियेत्यर्थः। ननु `लः कर्मणि चे'त्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम्, तिङ्?वाच्यभावनाया असत्त्वरूपताया उक्तत्वात्। ततश्च तस्य भावस्य असत्त्वरूपस्याऽत्र `तयोरेव कृत्ये'ति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्ख्यान्वयोऽनुपपन्न इत्यत आह– भावे औत्सर्गिकमेकवचनमिति। `एकवचनम्', `द्विबहुषु द्विबहुवचने' इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाऽभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः। क्लीबत्वं चेति। `एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसक'मिति `दाण्डिनायने' ति सूत्रस्थभाष्यादिति भावः। कर्मण्युदाहरति– चेतव्य इति। `वसेस्तव्यत्कर्तरि णिच्चेति वार्तिकम्। वास्तव्य इति। वस्तेत्यर्थः। णित्त्वादुपधावृद्धिः। केलिमर इति। धातोरित्येव। भावकर्णोरेवेदम्। केलिमरि ककाररेफावितौ। भिदेलिमा इति। कित्त्वान्नोपधागुणः। सरलाः = वृक्षविशेषाः। तद्भाष्येति। भाष्ये भिदेलिमा इत्युदाह्मत्य `भेत्तव्या' इत्येव विवरणादिति भावः।

तत्त्वबोधिनी

545 स्वरार्थाविति। तकारः `तित्स्वरित'मिति स्वरितत्वार्थः। रेफस्तु `उपोत्तमं रिती'ति मध्योदात्तार्थः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः धातोरेते प्रत्ययाः स्युः । The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root.

उदाहरणम् -

भावे – एधितव्यं/एधनीयं वा त्वया। एधितव्यम्/एधनीयम् is derived from √एध् (एधँ वृद्धौ १. २).

एध् + तव्यत्/तव्य 3-1-96
= एध् + तव्य 1-3-3, 1-3-9. Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= एध् + इट् तव्य 7-2-35, 1-1-46
= एधितव्य 1-3-3, 1-3-9. “एधितव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

एध् + अनीयर् 3-1-96
= एध् + अनीय 1-3-3, 1-3-9
“एधनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Since this is a भावे प्रयोगः, the विवक्षा is नपुंसकलिङ्गे, प्रथम-पुरुषः, एकवचनम्।
एधितव्य/एधनीय + सुँ 4-1-2
= एधितव्य/एधनीय + अम् 7-1-24, 1-3-4
= एधितव्यम्/एधनीयम् 6-1-107

कर्मणि – चेतव्यश्चयनीयो वा धर्मस्त्वया। चेतव्यः/चयनीयः is derived from √चि (चिञ् चयने ५. ५).

चि + तव्यत्/तव्य 3-1-96
= चि + तव्य 1-3-3, 1-3-9. Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चे + तव्य 7-3-84. Note: 7-2-10 stops 7-2-35
“चेतव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

चि + अनीयर् 3-1-96
= चि + अनीय 1-3-3, 1-3-9. Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चे + अनीय 7-3-84
= चयनीय 6-1-78
“चयनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

The विवक्षा is पुंलिङ्गे, प्रथम-पुरुषः, एकवचनम्।
चेतव्य/चयनीय + सुँ 4-1-2
= चेतव्य/चयनीय + स् 1-3-2, 1-3-9
= चेतव्यः/चयनीयः 8-2-66, 8-3-15