TBD.
पवर्गान्ताद् धातोः अकारोपधात् यत् प्रययो भवति। ण्यतो ऽपवादः। शप् शप्यम्। लभ लभ्यम्। पोः इति किम्? पाक्यम्। वाक्यम्। अदुपधातिति किम्? कोप्यम्। गोप्यम्। तपरकरणं तत्कालार्थम्। आप्यम्।
TBD.
778 पवर्गान्ताददुपधाद्यत्स्यात्. ण्यतोऽपवादः. शप्यम्. लभ्यम्..
665 पोरदुपधात्। ननु शप्यं लभ्यमित्यत्र `ऋहलोण्र्य'दिति कदाचिण्ण्यदपि स्यात्, यण्ण्यतोरसारूप्येण वाऽसरूप इत्यस्य प्रवृत्तेरित्यत आह– - नानुबन्धकृतमसारूप्यमिति। वाऽसरूपसूत्रे भाष्ये स्थिमिदम्। अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विविक्षितमित्यर्थः। प्रकृते च यण्ण्यतोरनुबन्दरहितयोः सारूप्याद्वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः।
554 पोः किम् ?। पाक्यम्। अदुपधात्किम् ?। कोप्यम्। तपरकरमं किम् ?। आप्लृ व्याप्तौ। आप्यम्। नानुबन्धेति। अनुबन्धानामनवयवत्वत्तत्कृतमसारूप्यं नाश्रीयते। एकान्तत्वपक्षेऽपि `ददातिदधात्योर्विभाषा' इति विभाषाग्रहणाल्लिङ्गन्नाश्रीयते। अन्यथा अनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन ?। ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः। एतच्च ददातीत्यादिसूत्रे विभाषाग्रहणमनुबन्धानामेकान्तत्वपक्षे शविषये णस्याऽप्राप्तौ विभाषा, एकान्तत्वपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायामेकान्तत्वपक्ष एवोपन्यस्तमिति तदनुसारेणेहाप्युक्तम्। अनेकान्तत्वपक्षे त्वसाधारणं लिङ्गम् `उदीचां माङः' इति सूत्रे माङो ग्रहणम्। मेङ इत्यत्र हि सत्यपि ङकारानुबन्धे तस्यानवयवत्वदेजन्तत्वमविहतमिति `आदेच उपदेशे' इत्यात्वस्वीकारादिति दिक्। ण्यदेवेति। तेन `तित्स्वरित'मिति स्वरिते सति आलम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण स्वरितान्तत्वमिष्टं सिध्यति, यति तु `यतोऽनावः' इत्याद्युदात्तत्वेनोत्तरपदाद्युदात्तत्वं प्रसज्येत, तच्चाऽनिष्टमिति भावः।
वृत्तिः पवर्गान्ताददुपधाद्यत् स्यात् । The affix यत् may be used following a verbal root which ends in a letter of the प-वर्गः (“प्”, “फ्”, “ब्”, “भ्”, “म्”) and has a अकारः as its penultimate letter.
उदाहरणम् – मया पुण्यं लभ्यम्। लभ्यम् derived from √लभ् (डुलभँष् प्राप्तौ १. ११३०).
लभ् + यत् 3-1-98
= लभ्य 1-3-3, 1-3-9
“लभ्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46