Table of Contents

<<3-1-7 —- 3-1-9>>

3-1-8 सुप आत्मनः क्यच्

प्रथमावृत्तिः

TBD.

काशिका

कर्मणः इच्छायां वा इत्यनुवर्तते। इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायाम् अर्थे वा क्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रीयति। सुब्ग्रहणं किम्? वाक्यान् मा भूत्। महान्तं पुत्रम् इच्छति। आत्मनः इति किम्? राज्ञः पुत्रम् इच्छति। ककारः नः क्ये 1-4-15 इति सामान्यग्रहणार्थः। चकारस् तदविघातार्थः। क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः। इदम् इच्छति। उच्चैरिच्छति। नीचिअरिच्छति। छन्दसि परेच्छायाम् इति वक्तव्यम्। मा त्वा वृका अघायवो विदन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

723 इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्..

बालमनोरमा

482 अथ नमधातुप्रक्रिया निरूप्यन्ते। सुप आत्मनः। प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते। सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम्। आत्मन्शब्दः स्वपर्यायः। तादथ्र्यस्य शेषत्वविवक्षायां षष्ठी। स्वर्थात्कर्मण इति लभ्यते। स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः। तथा च स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेः सुबन्तादिच्छायां क्यज्वा स्यादिति फलति। तदिदमभिप्रेत्य आह- -इषिकर्मण एषितृसम्बन्धिन इत्यादिना। एषित्रर्थादिषिकर्मण इत्यर्थः। एषित्रा स्वार्थं यदिष्यते कर्मकारकं .द्वाचकात्सुबन्तादिति यावत्। धात्ववयवत्वादिति। सुबन्तात्क्यचि कृते तदन्तस्य `सनाद्यन्ता' इति धातुत्वादिति भावः।

तत्त्वबोधिनी

415 सुप आत्मनः क्यच्। `धातोः कर्मणः' इति पूर्वसूत्रात्कर्मण इच्छायां वेत्यनुवर्तते। ततश्च सन्निधानादिच्छाकर्मण एव भवतीत्याह– इषिकर्मण इति। `परस्य पुत्रमिच्छती'त्यत्रातिप्रसङ्गवारणाय सूत्रे आत्मशब्द उपात्तः। स तु स्वशब्दपर्याय। स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापितत्वादेषितैव गृह्रते। तदाह–एषितृसंबन्धिन इति। सुबन्तस्योक्तविशेषणद्वयमर्थद्वारकं बोध्यम्।

Satishji's सूत्र-सूचिः

वृत्तिः इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । The affix क्यच् is optionally employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.
Note: Why has the ककार: been used as a इत् in क्यच्? Consider the सूत्रम् 1-4-15 नः क्ये। If the affix क्यच् were not to have ककारः as a इत्, 1-4-15 would have applied only in the case of the affix क्यङ् and not क्यच्। This would have been undesirable. Hence पाणिनिः has used ककारः as इत् in the affix क्यच्। Now 1-4-15 applies in the case of both क्यच् and क्यङ्।
Why has the चकार: been used as a इत् in क्यच्? If the affix क्यच् were not to have चकारः as a इत्, then it would have been just “क्य” and as per the the परिभाषा “एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य”, 1-4-15 would have applied only in the case of this affix and not क्यङ्। This would have been undesirable also. Hence पाणिनिः has used चकारः as इत् in the affix क्यच् in order to enable 1-4-15 to apply in the case of both क्यच् and क्यङ्। Note: In the optional case when the affix क्यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – आत्मनः पुत्रमिच्छति = पुत्रीयति।

The नाम-धातुः “पुत्रीय” is derived as follows:
पुत्र + अम् 4-1-2
= पुत्र + अम् + क्यच् 3-1-8
= पुत्र + अम् + य 1-3-8, 1-3-3, 1-3-9

Example continued under 2-4-71